Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०४८
वृ.उक्तासामान्येन दुष्कृतगर्दा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेव तमः--अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अहंदादिषु' अर्हतसिद्धाचार्योपाध्यायादिषु पूजाबहुमानार्हेषु अवण्णवयणंज तिअवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वाहीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापंग मि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः मू. (५२) सुअधम्मसंघसाहुसु पावं पडिनीअयाइ जं रइ।
अन्नेसुअ पावेसु इण्हि गरिहामि तं पावं ।। वृ. श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंधसाधवः तेषु पापं--आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि बदरुच्यबहुमानादि चिन्तनं अज्ञानमेव सोभन मिति भणतापूर्वभवे माषतुषस्येवधर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छतश्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव। ___तथा सर्वेषांश्रुतधर्मार्हदाचार्योपाध्यायसाधूनामुपरिप्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषु-अष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामीत्यर्थः। मू. (५३) अनेसु अ जीवेसु अ मित्तीकरनाइगोअरेसु कयं ।
परिआवणाइ दुक्खं इण्हि गरिहामि तं पावं ।। १. यच्चोक्तं-'अन्नेसु अ पावेसुत्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु--तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभित्रेषुमैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरो-विषयो येषांते तथा तेषुकृतं-निष्पादितं परिआवणाइ'त्ति परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं तदपि पापं गर्हामिजुगुप्साम्यालोचयामीतियावत्। मू. (५४) जमनवयकाएहि कयकारिअअनुमईहिं आयरि।
धम्मविरुद्धमसुद्धं सव्वं गरिहामि तंपावं॥ वृ.अथोपसंहारमाह-यत्किञ्चित् पापंकृत्यं मनोवाक्कायै रागद्वेषमोहाज्ञानवशात् कृतका रितानुमतिभिराचरितं विहितं धर्मस्य-जिनधर्मस्य विरुद्ध प्रतिकूलं अतएवाशुद्ध-सदोषं सर्वं समस्तमपि तत्पापं गामि-अपुनःकरणेनाङ्गीकरोमि गुरुसन्निधावालोचयामि ।
-उक्त दुष्कृतगर्हारूपोद्वितीयोऽधिकारः,अधुना सुकृतानुमोदनारूपंतृतीयाधिकारमाहमू. (५५) अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडंभणई।
___ सुकडानुरायसमुइण्णपुण्णपुलयंकुरकरालो ।। वृ. 'अथेति दुष्कृतगनिन्तरं सः-साध्वादिको जीवः, कथम्भूतः ?-दुष्कृतगर्हयादुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानियेन सतथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45