Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०४८
७७
स्यात्तदाथाद्वयेनाहमू. (५९) सुहपरिणामो निच्चं चउसरणगमाइ आयरंजीवो।
कसलपयडीउ बंधइ बद्धाउ सहानबंधाओ॥ वृ. शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादिचतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलं-पुण्यं तत्प्रकृतीः “साउच्चगोअमणुदुगे'त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बध्नाति,शुभाध्यवायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः-उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एव शुभप्रकृतीः। मू. (६०) मंदनुभावा बद्धा तिव्वनुभावाउ कुणइ ता चेव ।
असुहाउ निरनुबंधाउ कुणइ तिव्वाउ मंदाओ। वृ.प्राग्मन्दानुभावा बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीव्रोऽनुभावो-रसोयासां तास्तीव्रानुभावाः-अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोतिअल्पप्रदेशका बहुप्रदेशकाश्च करोतीत्यपि ज्ञेयं, तथा असुहाउत्तियाश्चाशुभा 'नाणंतरायदसग मित्यादिगाथोक्ताद्व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्तानिर्गतोऽनुबन्धः-उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीवाः-तीव्ररसाः प्राक्तीवाशुभपरिणामेन बद्धास्ता मन्दाः-मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात्, वन्दनकदानात् श्रीविष्णोरिवेत्यर्थः।
- उक्तं चतुःशरप्रतिपत्यादेर्महत्फलं, अत एव तदवश्यं कर्तव्यमिति दर्शयतिमू. (६१) ता एवं कायव्वं बुहेहि नियंपि संकिलेसम्मि।
होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ।। घृ. 'ता' इति तस्मात्कारणात् 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमति-विधेयं विबुधैः-अवगततत्वैर्नित्यमपि सततमपि, कस्मिन्? -संक्लेशे-रोगाद्यापद्रूपे, एतेन यथाकर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपिपलालाद्यानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तिं तनोतीति दर्शितं, तथा असंक्लेशोरोगाद्यभावस्तस्मिन्चतुःशरणादि भवति त्रिकालं-सन्ध्यात्रयरूपेकाले विधीयमान मिति शेषः ।
सम्यग्मनोवाकायोपयुक्ततया, कथं भवतीत्याह-'सुगईफलं'ति शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सैच फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतांसाधूनामुत्कर्षतोमोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात्, 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुबन्धि तत्प्राप्ति फलं भवतीत्यर्थः ।
____ अथयोऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादिप्रमादादिनान कृतवान् तंशोचयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45