Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ ७८ चतुःशरण-प्रकिर्णकसूत्रम् ६ मू. (६२) चउरंगो जिनधम्मो न कओ चउरंगसरणमविन कयं। । चउरंगभवच्छेओन कओ हा हारिओ जम्मो।। वृ. चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्मः-अर्हद्धर्मो न कृतो- विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात्, तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि-अर्हतसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्यछेदो-विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन। • 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणंच अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्चयवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति । अथ प्रस्तुताध्ययनोपसंहारमाहमू. (६३) इइ जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं । झाएसुतिसंझमवंझकारणं निव्वुइसुहाणं॥ वृ. इति उक्तप्रकारेण हे जीव! हे आत्मन्! एतदध्ययनंध्याय-स्मरत्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ? -'पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वाप्रमादस्य, तेषांप्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते यस्मात्तद्भद्रान्तंमोक्षप्रापकमित्यर्थः,अथवा हे वीर हे भद्रेति संबोधनपदद्वयंजीवस्योत्साहवृद्धिहेतुः, 'अंत'मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं?-अवन्ध्यकारणं-सफलकारणं, केषां निर्वृत्ति मोक्षस्तत्सुखानामिति ।। ' 'जिअ'इति पाठे तु जितप्रमादमहारिपूर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहसाधुमध्यवर्ती तस्येदंजितं तदेतदध्ययनंध्यायेत्यादि, एवं शास्त्रकर्तुसमासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाधार्थ। २४ प्रथम प्रकिर्णकंचतुःशरणं-समाप्तम् । मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरणप्रकीर्णकस्य विजयविमलगणिविरचिता टीका (अवचूर्णिः) परिसमाता। **** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45