Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
७६
चतुःशरण-प्रकिर्णकसूत्रम् ४५ स किंभूतः?-सुकृतानुरागेण--सुचरितबहुमाने समुदीर्णा संजाताः पुण्यबन्धहेतुत्वात् पुण्याःपवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा । मू. (५६) अरिहंतं अरिहंतेसुजंच सिद्धत्तणं च सिद्धेसु ।
आयारं आयरिए उवज्झायत्तं उवज्झाए। वृ.यभाषते तद्गाथाद्वयेनाह--अर्हत्त्वं-तीर्थकरत्वं प्रतिदिनं द्विधर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरुपमसुखभोक्तत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं-ज्ञानाचारादिरूपंपञ्चविधमाचार्येषुअनुमन्ये, तथा उपाध्यायत्वं सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति । मू. (५७) साहूण साहुचरिअंदेसविरइंच सावयजणाणं ।
अणुमन्ने सव्वेसिं सम्मत्तं सम्मदिठ्ठीणं ।। वृतथा साधूनां सामायिकादिचारित्रवतांपुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककलपातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानां सर्वकालक्षेत्रविशेषितानां साधुचरितं चरणादिक्रियाकलापंज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपंवाऽनुमन्ये, 'साहुकिरियमिति पाठान्तरेतुसाधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरतिं-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतैकादशप्रतिमादिरूपां, केषां ?
'श्रांपाके श्रान्ति-पचन्ति तत्वार्थश्रद्धानं निष्ठांनयन्तीति श्राः 'टुवपीबीजसंताने' वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इतिवाः कृत् विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च तेजनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वंसम्यक्त्वं-जिनोक्ततत्वश्रद्धानरूपं तमेवसचं निस्संकंजंजिणेहिंपवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यग्-अविपर्यस्ता दृष्टि-दर्शनं येषां ते सम्यग्दृष्टयः तेषा मस्यग्दृष्टीनां, अविरतनानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनीमिवेत्यर्थः। मू. (५८) अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुकडं।
कालत्तएवि तिविहं अनुमोएमो तयं सव्वं ॥ वृ.अथ सर्वानुमोदनार्हसंग्रहमाह-'अथवे ति सामान्यरूपप्रकारदर्शने 'चि एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाधुपष्टंभधर्मसानि ध्यक्षमामार्दवसंवेगादिरूपंमिथ्याक्संवन्ध्यपि मार्गानुयायिकृत्यंकालत्रयेऽपित्रिविधंमनोवाक्कायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यतिचेति। _ 'तकत्' इति ततशब्दात् 'त्यादिसवदिः स्वरेष्वंत्या' दिति सूत्रेण स्वार्थेऽकप्रत्यये रूपं, तदित्यर्थः, तत् सर्वं-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतांप्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं ।
मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरणप्रकिर्णके तृतीयाधिकारस्य विजय विमलगणिना विरचिता टीका परिसमाप्सा। तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45