Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 24
________________ ७४ चतुःशरण-प्रकिर्णकसूत्रम् ४८ गौरवं-महत्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थो-माहास्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षोषध्यादिमाहास्यविशेषसंभवात्, ततः पञ्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य,चारित्रपक्षेऽयंपूर्वोक्तोऽर्थः, श्रुतधर्मपक्षेतु रचना पदपङ्क्त्या भास्वरोज्ञानादिभि केवलिभिरुक्तत्वात् भास्वरःशोभना वर्णाः-अक्षराणितेषांतथा सुन्दराया विरचनातस्यायोऽलङ्कारोद्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेनचशोभाविशेषः तस्माद्यद्गौरवं गुरुत्वं अन्तार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वा भासुरसुवर्णसुन्दररचनालंकारेणगौरवं-गुरुत्वं यस्य स तथा, महार्थमिति पृथक्कृत्वा समस्यते । निधिपक्षे पुनर्भासुरं-दीप्तिमत् सुवर्णं-कनकं सुन्दराणि यानि रत्नानि अलङ्काराहाराद्याभरणविशेषास्तै गौरवं-सम्पूर्णता तन महा|-बहुमूल्यः, 'दोगच्चिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गति-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गतर्भावो दौर्गत्यं, श्रुतधर्मपक्षेतु गत्या ज्ञानार्थाधातवः अतो गति-ज्ञानंदुष्टा गतिःदुर्गतिःअज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्मं श्रीजिनैः श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः । मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरण प्रकिर्णके प्रथमाधिकारस्य विजयविमलविरचिता टीका परिसमाप्ता। - उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगह स्वपं द्वितीयमधिकारमाहमू. (४९) चउसरमगमणसंचिअसरचरिअरोमंचअंचिअसरीरो। कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ ।। वृ.चतुःशरणगमनेन-चतुःशरणागीकारेण संचितं-राशीकृतंयत्सुचरितं-पुण्यंतेनयोऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथाकृतानि इहभवे-ऽन्यभवेच विवितानियानिदुष्कृतानि-पापकृत्यानि तेषां गर्दा-गुरुसमक्षं हादुटु कयामित्यादिनिन्दा तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः॥ म. (५०) इहभविअमनभविअंमिच्छत्तपवत्तणं जमहिगरणं। जिनपवयणपडिकुटुंदुटुं गरिहामि तं पावं ।। वृ. यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्तनं-कुतीर्थिकदानसन्मानतद्देवाचनतचैत्यकारापणाघधिकरणं, अन्यदपि चाधिकरणंभवनारामतटाकादिकारणसघनुःखङ्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपंयत्कृतमितिशेषः, तथाऽन्यञ्च जिनप्रवचने यप्रतिकुष्टं-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः । मू. (५१) मिच्छत्ततमंघेणं अरिहंताइसु अवनवयणं जं। अन्नाणेण विरइअंइण्हि गरिहामितंपावं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45