Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ चतुःशरण-प्रकिर्णकसूत्रम् १९ सम्यक्त्वदेशविरतिसविरतिलक्षणशिक्षाप्रदानेन, मोक्ष यान्तीति योगः, शेषं तथैव ॥ मू. (२०) वयणामएण भवणं निव्वावंता गुणेसु ठावंता। जिअलोअमुद्धरता अरिहंता हुंतु मे सरणं ।।। वृ. 'वयणा' इतिवचनमेवामृतंवचनामृतंक्षुत्पिपासादिदोषापहारकत्वात्तेनवचनामृतेन भुवनं-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वाफ्यन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषुप्रागुक्तंभुवनमेव स्थापयित्वा वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापिनावबुध्यन्ते, तमुद्धत्य उध्धरन्तोवाभवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत्॥ मू. (२१) अब अगुणवंते निअजसससहरपसाहियदिअंते। निअयमणाइमणते पडिवन्नो सरणमरिहते॥ पृ.अन्नब्मुत्तिअत्यदभूता-अन्येष्वसंभविनोये गुणाः-प्रातीहार्यालिदलक्षणाः अन्ये वारूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान, तथा निजयश एव शशधर:-चन्द्रस्तेन प्रसाधिता-विभूषितादिगन्ता-दिक्पर्यन्तायैः ‘पयासितिपाठेप्रकाशिता वायैस्तान नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः॥ मू. (२२) उग्झिअजरमरणाणं समत्तदुक्खतसत्तसरणाणं। तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ।। - दृ.अथ कृतार्हच्छरणो विशेषेण तेषांनमस्कारमाह-'उज्झि'त्ति, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहित्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि-सम्पूर्णानि यानि दुःखानि तैरार्ता ऋतावा-पीडिता ये सत्वाः-प्राणिनस्तेषांशरण्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्तं-निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता-जन्मजरामरणादिदुःखैः पीडिता ये सत्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः । - तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थेषष्ठी 'छट्टीविभत्तीइभण्णइ चउत्थी' इतिप्राकृतसूत्रबलात, तेभ्यः-पूर्वोक्तगुणेभ्योऽहम्यो नमो-नमस्कारोऽस्तु ।। अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहमू. (२३) अरिहंतसरणमलसुद्धिलद्धसुविसुद्धसिद्धबहुमाणो। पणयसिररइअकरकमलसेहरो सिहरिसंभणइ ।। वृ. 'अरिहंत'त्तिअर्हन्तांशरणमर्हच्छरणंतेन पूर्वोक्तेन या मलस्य-कर्मरजसःशुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, “सुविसुद्ध ति पाठे तु सुठुअतिशयेन विशुद्धो-निर्मल इत्यर्थः,पुनः किंभूतः?-प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन्सहर्ष भणति॥ मू. (२४) कम्मडक्खयसिद्धा साहाविअनाणदसणसमिद्धा। सवट्टलद्धि सिद्धा ते सिद्धा इंतु मे सरणं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45