Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ ७० चतुःशरण-प्रकिर्णकसूत्रम् ३७ लाषुकगत्वात् मोक्षसुखाभिलाषिण इत्यर्थ । तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनांमनः-चित्तमभिरमयन्ति-आनन्दयन्तीतिसत्पुरुषमनोऽभिरामाः,तथात्यक्तान्यकृत्यत्वादात्मानंतासु तासुप्रवचनोक्तक्रियासुरमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहतुत्वात्ते तथा, अथवाआचारं-पञ्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्तेजगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ मू. (३७) मिल्हिअविसयकसाया उज्झिअघरघरणिसंगसुहसाया। अकलिअहरिसविसाया साहू सरणं गयपमाया ।। वृ. 'मिल्हिअत्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारंगृहिणी-कलत्रंतयोः सङ्गः-संबन्धस्तस्माद्यः सुखा- स्वादः-सुखानुभवः स उज्झितः-परिहृतो यैस्ते तथा निष्परिग्रहा निस्सहाश्चेत्यर्थः-, तथा न कलितौ-नाश्रितौ हर्षवषादौ-प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, "विहुअसोआ' इति तु पाठे विधूतानि श्रोतांसि-आश्रव- द्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ म. (३८) हिंसाइदोससन्ना कयकारूण्णा सयंभुरुप्पण्णा। अजरामरपहखुण्णा साहू सरण सुकयपुण्णा।। वृ.हिंसा आदिर्येषां ते हिंसादयः ते च ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनांग्रह:, हिंसादिदोषैः शून्याः-तैर्विरहिता इत्यर्थः,तथा कृतं-विरचितंकारुण्यं-- जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपार्द्रचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानंप्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवित इतिस्वयम्भूः स्वयम्भुवौ रुकप्रज्ञे-सम्यक्त्वज्ञाने येषांते स्वयम्भूरुक्प्रज्ञायद्वा स्वयंभुवा-स्वयम्भूतेनसम्यक्त्वेन क्षायिकादिनापूर्णा, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न' इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमो भीमसेन' इति वत्, ततस्तत्तुल्ये विस्तीर्णे ऋक्प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभराः-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः । तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं तस्य पयो-मार्गस्तदुपदर्शकत्वाप्रवचनशास्त्राणीत्यर्थ तेषु क्षुण्णाः-निपुणाः, सम्यकतत्वस्य वेदिन इत्यर्थः, क्षुण्ण:-पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्तेतथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः, 'अजरामरबहुखुन्ना' इति पाठे तु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवंक्षुण्णाः-सम्यग्मोक्षस्वरूपप्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एष्यद्भवयोग्यं स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, तद्वा सुकृतैः-तपःप्रभृतिभि पूर्णा-भृताः संचितप्रभूततपस इत्यर्थ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45