Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ ६८ चतुःशरण-प्रकिर्णकसूत्रम् ३३ जिनकप्पअहालंदिअपरिहारविसुद्धिसाहू अ॥ वृ.तथाचतुर्दशपूर्वाणि विद्यन्तेयेषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानिचत्वारिपूर्वाणिप्रायः समुदितान्येवव्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः । तथा नवपूर्विण श्रीआर्यरक्षितादयः, पूर्वाशब्दः स्थानत्रयेऽपि संबध्यते । तथा दुवालसत्ति अग्रेतनाङ्गीशब्दसंबन्धात्द्वादशाङ्गिनः, ननु चतुर्दशपूर्विणांद्वादशाङ्गिनां च को भेद इति चेद्, उच्यते द्वादशमङ्गं हेष्टिवादः, सच परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापिपूर्वगतमध्येसन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्चये च, चकारो भिन्नक्रमसूचकः। संप्रति विशेषानुष्ठानिन आह-'जिनकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येवकल्पः-आचारो येषांते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअत्तिउदकाः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरम्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणंतदत्रगृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीतियथालन्दिकाः,पञ्चको गणोऽमुकल्पंप्रतिपद्यते, मासकल्पक्षेत्र च गृहपक्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं ___ नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पञ्चापिनिर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचारलं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वंपारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपत्रान् साधूनाहमू. (३४) खीरासवमहुआसव संभिन्नस्सो अकुट्ठबुद्धी । चारणवेउविपयाणुसारिणो साहुणो सरणं। वृ.'खीरासव'त्तिचक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्यार्द्धार्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यक्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवतिमुञ्चतीति क्षीरीश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्वाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिन्नसोअति ये सर्वे शरीरावयवैः शृण्वन्तिजानन्तिच चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चा कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक्पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्न श्रोतसः, 'कुट्ठबुद्धियत्ति नीरन्द्रकोष्ठकक्षिप्तधान्यव ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः । 'चारण'त्ति अतिशयचरमाच्चारणाः, ते द्विधा-जझाचारणा विद्याचारणाश्च, तत्राद्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45