Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ ६६ चतुःशरण प्रकिर्णकसूत्रम् २७ पू. (२७) पडिपिल्लिअपडिणीआ समग्गझाणग्गिदभवबीआ । जोईसरसरणीया सिद्धा सरणं समरणीआ ॥ वृ. 'पडिपिल्लिअ'त्ति, प्रतिप्रेरिताः - क्षिप्ता अनाहता इत्यर्थ प्रत्यनीकाः - शत्रवो यैः समशत्रुमित्रत्वात्, यद्वा प्रतिप्रेरिता- निराकृताः प्रत्यनीका - निराकृताः प्रत्यनीका- रागाद्यान्तरशत्रवो यैस्ते तथा, समग्र - सम्पूर्णं यद्धयानं परमलयः शुक्लध्यानमित्यर्थ तदेवाग्नि- वह्निस्तेन दग्धंभस्मसातकृतं भवस्य-संसारस्य बीजं -ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा - गणधराछद्मस्थतीर्थकरावा तै शरणीयाः - आश्रयणीया नमस्करणध्यानादिना, तथा स्मरणीया - ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ॥ पाविअपरमानंदा गुणनिस्संदा विदिनभवकंदा । मू. (२८) लहुईकयरविचंदा सिद्धा सरणं खविअदंदा ।। वृ. 'पाविअ ' त्ति, प्रापितः - आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां ज्ञानदर्शनादीनां परिपाकप्राप्तत्वान्निस्त्यन्दः - सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो विदारितः स्फाटितो भवस्य - संसारस्य मोहनीयादिकर्मरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशकबेवलोद्योतन लघुकीकृती - अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं -क्षयं नीतं द्वन्द्वं--संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात्, ते एवंविधाः सिद्धाः शरणं भवन्तु । उवलद्धपरमबंभा दुल्लहलंभा विमुक्कसंरंभा । भुवनधरधरणखंभा सिद्धा सरणं निरारंभा ।। भू. (२९) बृ. 'उवलद्ध'त्ति, उपलब्धं प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं, यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः - लाभो मुक्तिपदप्राप्तिलक्षणो येषां सर्वलाभाग्रेसरत्वात्तलाभस्य सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच्च, तथा विमुक्तः परित्यक्तः करणीयपदार्थेषु संरंभः - आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां । - तथा भुवनं - [भुवनं - त्रिभुवनं तदेव गृहं तस्य धरणं-अवष्टम्भनं तत्र स्तम्भा इव स्तम्माः, भुवनलोकस्य दुर्गतौ पततः स्वशरणप्रतिपत्तु स्थिराधारभूतत्वात्तेषां] जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणे-रक्षणे स्तम्भा इव स्तम्भाः, तथा 'निरारम्भा' निर्गता - बहिर्भूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां ते एवंभूताः सिद्धा मम शरणं-आलम्बनं भवन्तु । । एतेन सिद्धाख्यं द्वितीयं शरणभिहितं ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाहयू. (३०) सिद्धसरणेण नयबंभहेऊ साहुगुणजणि अअनुराओ । मेइणिमिलन्तसुपसत्यमत्यओ तत्थिमं भणइ ॥ वृ. 'सिद्ध'त्ति, नया - नैगमादयस्तैरुपलक्षितं यद्ब्रह्म - श्रुतज्ञानं द्वादशाङ्गरूपं 'नयमङ्गप्रमाण- गमगहन' मिति वचनात्तस्य नयब्रह्मणो ये हेतवः - कारणभूताः साधुगुणा - विनयादयो, विनयादिगुण सम्पन्नस्यैव श्रुतावाप्तेः तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः -- उत्पादितोऽनुरागो - बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादि - केनास्यानुरागः कृत इत्याह- सिद्धशरणेन पूर्वोक्तेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45