Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०२४
वृ. यच्चायं भणति तद्गाथाषट्केनाह-'कम्मट्टत्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः तेतीर्थसिद्धादिभेदेन पञ्चदशधा, तानाह
तीर्थसिद्धाःप्रसन्नचन्द्रसनत्कुमारादयः१ अतीर्थसिद्धामरुदेव्यादिकाः२ गहलिङ्गसिद्धाः पुण्याव्याटिकाः ३ अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः ४ स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ५ स्त्रीलिङ्गसिद्धाराजीमत्यादिकाः६ नरसिद्धाभरतादिकाः७कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ८प्रत्येकबुद्धसिद्धानमिराजादिकाः९स्वयंबुद्धसिद्धाः समुद्रपालादिकाः १० बुद्धबोधितसिद्धाः विकाधिकपञ्चदशशततापसादिकाः ११ एकसिद्धाः गजसुकगुमालादिकाः १२ अनेकसिद्धा भरतपुत्रादिकाः १३ अजिनसिद्धाः पुण्डरीकगौतमादिकाः १४ जिनसिद्धाआदिनाथादिकाः १५।
पुनः कथंभूताः ?-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्तेइत्यर्थासर्वेचतेऽर्थाश्चतेषांलब्धयःप्राप्तयः सर्वार्थलब्धयः सिद्धाःनिष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्या-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धानिष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भवन्तु। मू. (२५) तिअलोयमत्थयत्या परमपयत्था अचिंतसामत्था ।
मंगलसिद्धपयत्या सिद्धा सरणं सुहपसत्था ।। वृ. 'तिअलोय'त्ति, त्रैलोक्यस्य-चतुर्दशरज्यात्मकस्य यन्मस्तकं-वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषयाग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः, तथापरमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाचारित्रादिक्रियाकलापस्यतत्रतिष्ठन्तीतितेतथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं येषां ते तथा।
मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलमूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कयंभूताः ?-सुखेन जन्मजरामरणक्षुत्तृ षाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः । मू. (२८) मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपञ्चक्खा।
साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ।। वृ. 'मूलुक्खय'त्ति, मूलादुत्खाता:-उन्मूलिताः प्रतिपक्षाः कर्मस्पा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए'त्तिपाठेऽयमर्थो मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसवातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तज्जयं कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनांसयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां । ___तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमाप्तं प्राप्तवासुखंयैस्तेतथा, पुनः किंविशिष्टाः परमः-प्रकृष्टोऽत्यन्तं विगमात्कर्मभि सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु॥ [ 145]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45