Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ मू०१५ म.(१६) परमनगयं मुणंता जोइंदमहिंदझाणमरिहंता। धमकहं अरहंता अरहंता हुतु मे सरणं॥ वृ. परमन०'त्ति, परेषां-आमव्यतिरिक्तानां मनांसि परमनांसि तेषुगतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा' 'वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो मुनयस्तेषामिन्द्राः-गौतमादयःमहान्तचतेइन्द्राश्च महेन्द्राः-शक्रादयस्तेषांध्यान-स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हा। तथाधर्मकथांदानशीलतपोभावनादिकांकथयितुमर्हन्तः तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छमस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानर्हत्वाजिनानां, शेषं प्राग्वत्॥ मू. (१७) सम्वजिआणमहिसं अरहंता सवयणमरहता। . बंभवयमरहंता अरहता हुंतु मे सरणं॥ वृ. 'सव्व०' तिसर्वे सूक्ष्मबादरत्रसस्थावरा ये जीवास्तेषांन हिंसा अहिंसा-रक्षातामहन्तः तथासतां हितं सत्यं-तथ्यंतचतद्वदनंचतदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहि-तत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं। ॥१॥ 'दिव्यौदारिककामानां' कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्मादशधा मतम् ।। इति श्लोकोक्तमासेवितुंप्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव ।। तथा ओस'तिअवस्त्रियते-गम्यते संसारभयोद्विग्नैः जीवैरित्यवसरणंसमवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयानिषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्ति यान्तियास्यन्तिजाता इत्यध्याहार्यं कहता' इति पाठे धर्मकथां कथयन्तोये वर्तन्ते ते शरणं, पूर्वधर्मकथाकथनयोग्याइत्युक्तंअत्रतुधर्मकथांकथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं॥१॥ 'सज्झायज्झाणतवोसहेसु उवएसथु इपयाणेसु । संतगुणकित्तणेसु अन हुंति पुनरुत्तदोसा उ॥ शेषं तथैव। मू.(१८) ओसरहणमवसरंता चउतीसं अइसए निसेवित्ता। धम्मकहं च कहता अरहता हुंतु मे सरणं ।। मू. (१९) एगाइ गिराऽनेगे संदेहे देहिणं समं छित्ता। तिहुअणमनुसासंता अरिहंता हुंतु मे सरणं ।। वृ. 'एगाइ गिरत्तिएकयाऽपिगिरा--एकेनापि वचनेन अनेकप्रकारान्संदेहान्-संशयान्, केषां ? -देहिनां सुरासुरनरतिर्यगरूपाणां समं-समकालमेव छित्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते'ति पाठे समुच्छिद्येतदि ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा Jain Education International For Private & Personal Use Only For www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45