Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ ६२ चतुःशरण प्रकिर्णकसूत्रम् १२ भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं - प्रणामस्तेन उन्मिश्रं - व्याकुलं यथा भवति एवं यद्वा प्रहर्षवशाद्योऽसौ प्रणयः - आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्रं, क्रियाविशेषणमेतत्, तथा शिरसि - मस्तके कृताञ्जलि - कृतकरकुण्डलः सन् भणति । अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहमू. (१३) रागद्दोसारीणं हंता कम्मट्ठगाई अरिहंता । विसयकसायारीणं अरिहंता हंतु मे सरणं ॥ बृ. 'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रंरागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषारिहंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादी यषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्रष्टव्यः । तथा विषयाः- शब्दरूपगन्धरसस्पर्शाकषायाः - क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो-जिना मे-मम शरणं - परित्राणं भवन्त्वित्यर्थः । भू. (१४) रायसिरिमवकसित्ता तवचरणं दुच्चरं अनुचरंता । केवलसिरिमरिहंता अरहंता हुंतु मे सरणं ॥ वृ. 'रायसिरि० 'त्ति, राज्यश्रियं - राज्यलक्ष्मीं अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं- आसेवनं, कथंभूतं दुश्वरं - सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्य - आसेव्य ये केवलश्रियं - केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थ तेऽर्हन्तः - तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि । राज्यश्रियमपकर्षयन्तः - त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चार्हन्तः -- प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्य श्रीत्यागतपश्चरणकरणकेवल श्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्करार्हा अविरतत्वादिति दर्शितं यच्चानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ मू. (१५) थुइवंदणमरिहंता अमरिंदनरिंदपुअमरहंता । सासयसुहमरहंता अरहंता हंतु मे सरणं ॥ बृ. 'थुइवंद० 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा - सद्भूतगुणोत्कीर्त्तनं वन्दनं– कायिकः प्रणामः तौ अर्हन्तः - तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धि अर्हन्तः -- तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखंनिर्वाणादनन्तरं तदप्यर्हन्ति तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45