Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ ५८ चतुः शरण- प्रकिर्णकसूत्रम् १ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः २४ चतुः शरण-प्रकिर्णकसूत्रम् सटीकं (प्रथमं प्रकिर्णकम् ) (वीरभद्रमुनिप्रणितं मूलसूत्रम्+ विजयविमलगणिविरचिता-वृत्तिः/ अवचूर्णिः) वृ. इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वप्नोच्चारव्यासर्वतीर्थकृद्गुणस्मरणवर्तमानतीर्थाधिपति श्रीवीरनमस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे 'ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुः शरणप्रतिपत्यादियोग्यता स्यादतः प्रथमं षडावश्यकमाहसावज्जजोगविरई २ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ । पू. (9) खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ बृ. 'सावजे 'त्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः योगा- मनोवाक्कायरूपा व्यापारास्तेषां विरति-निवृत्ति सावद्ययोगविरति सा सामायिकेन क्रियते इत्यध्याहारः १, उत्कीर्त्तनंजिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्ततेन क्रियते २ गुणा ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्ति-भक्तिर्गुणवव्प्रतिपत्ति सा वन्दने क्रियते ३, स्खलनं स्खलितं – आत्मनोऽतिचारापादनंतस्य निन्दनं - निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रणेन क्रियते ४, व्रणस्य - अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५ गुणा - विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारण सा प्रत्याख्यानेन क्रियते ६, 'चैवे 'ति षण्णामपि समुच्चये ॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाह मू. (२) चारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावजे अरजोगाण वज्रणाऽऽ सेवणत्तणओ || वृ. 'चारिते' त्यादि, चारित्रस्य चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधि-निर्मलता क्रियते, केन ? - सामायिकेन समभावलक्षणेन 'किले 'ति सत्ये' 'इहयं' ति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधि क्रियते ? इत्याह- 'सावजे ' त्ति सावधाः - सपापा इतरे च - निरवद्या ये योगाः कायादिव्यापारास्तेषां यथासङ्ख्ये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधि क्रियते इति तात्पर्यार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45