Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 429
________________ ८५३ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए नेरइयाणं तु अंतरं ॥१६८॥ एएसिं वन्नओ चेव गंधओ रस-फासओ। संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥१६९॥ आसां व्याख्या-नैरयिकाः सप्तविधाः सप्तप्रकाराः । यतः पृथिवीषु सप्तसु भवेयुस्ततस्तद्भेदात् तेषां सप्तविधत्वमिति भावः । कास्ताः सप्त ? इत्याह-'रयणाभ'त्ति रत्नानां वैडूर्यादीनामाभा स्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत् तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात् । एवं सर्वत्र । नवरं शर्करा श्लक्षणपाषाणशकलरूपा तदाभा । 'धूमाभ'त्ति यद्यपि तत्र धूमासम्भवस्तथापि तदाकारपरिणतानां पुद्गलानां च सम्भवात् धूमाभात्वम् । तमोरूपत्वाच्च तमःप्रभा । प्रकृष्टतरतमस्त्वाच्च तमस्तमा । इत्यनेन पृथिवीसप्तविधत्वप्रकारेण नैरयिका एते सप्तधा परिकीर्तिताः ॥ क्षेत्रतो लोकस्यैकदेशे ते नैरयिका व्याख्याताः । इतोऽनन्तरं कालविभागं वक्ष्ये चतुर्विधम् ॥ चतुर्विधत्वमेवाह-कालतः सन्ततिं प्राप्यानाद्यपर्यवसितत्वम् । स्थिति प्राप्य सादिसपर्यवसितत्वमिति ॥ सागरोपममेकं तूत्कृष्टेन व्याख्याता प्रथमायां नरकपृथिव्यां जघन्येन दशवर्षसहस्त्रिका 'प्रस्तावादायुः स्थिति:रयिकाणाम्' इतीहोत्तरसूत्रेषु च द्रष्टव्यम् ॥ त्रीण्येव सागरोपमाणि तूत्कृष्टेनाख्याता द्वितीयायां जघन्येन पुनरेकं सागरोपमम् । सप्त सागरोपमाणि तूत्कृष्टेन तृतीयायां जघन्येन पुनस्त्रीण्येव तानि ॥ दश सागरोपमाणि तूत्कृष्टेन चतुर्थ्यां जघन्येन सप्तैव ॥ सप्तदश सागरोपमाणि तूत्कृष्टेन पञ्चम्यां जघन्येन दशैव ॥ द्वाविंशतिसागरोपमाण्युत्कृष्टेन षष्ठ्यां जघन्येन सप्तदशैव ॥ त्रयस्त्रिंशत् सागरोपमाणि तूत्कृष्टेन व्याख्याता सप्तमनरकपृथिव्यां जघन्येन द्वाविंशतिसागरोपमा ॥ आयुःस्थितिरुक्ता कायस्थितिमाह-या चैव पुनरायुःस्थितिनैरयिकाणां व्याख्याता सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेद् । यतस्ते तत उवृत्ताः पुनस्तत्र नोत्पद्यन्ते, किन्तु गर्भज-पर्याप्त-सङ्ख्येयवर्षायुषेष्वेवेति ॥ अन्तर-भावाभिधायकं सूत्रद्वयं प्राग्वत् । नवरमन्तर्मुहूर्तं जघन्यमन्तरं यदाऽन्यतरनरकादुद्वृत्य कश्चिज्जीवो गर्भजपर्याप्ता-मत्स्यादिषूत्पद्यते । तत्रातिसङ्क्लिष्टाध्यवसायोऽन्तर्मुहूर्त्तमायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावः । इति चतुर्दशसूत्रार्थः ॥१५६-१६९॥ अथ तिरश्चामाह- . पंचिंदियतिरिक्खा उ दुविहा ते वियाहिया । संमच्छिमतिरिक्खा उ गब्भवक्वंतिया तहा ॥१७०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516