Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८७१ रोषप्रसरः । नित्यं विरोधशीलतया पश्चात्तापाकरणतया क्षामणादावपि मनःप्रसत्त्यप्राप्तेरिति भावः । यदुक्तम्
"निच्चं वुग्गहसीलो काऊण ण याणुतप्पए पच्छा ।
ण य खामिओ पसीयइ अवराहीणं दुवेण्हं पि" ॥१॥ तथा च निमित्तमतीतानागत-वर्तमानादिभेदात् त्रिधा तस्मिन् विषये प्रतिसेवीत्यवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरी भावनां करोति ॥२६६॥ मोहीभावनामाह
सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य ।
अणायारभंडसेवा जम्मण-मरणाणि बंधंति ॥२६७॥ व्याख्या-शस्त्रं खड्गादि तस्य ग्रहणम् 'उपलक्षणत्वादात्मनि वधार्थं व्यापारणम्' शस्त्रग्रहणम् । विषं तालपुटादि तस्य भक्षणं विषभक्षणं च । ज्वलनं भस्मीकरणम् 'आत्मन इति गम्यते' । जले प्रवेशो निमज्जनं जलप्रवेशः । 'चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः' । आचारः शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा 'गम्यमानत्वादेतानि कुर्वन्तो यतयः' जन्म-मरणानि 'उपचारात् तद्धेतुकर्माणि' बध्नन्त्यात्मना श्लेषयन्ति । संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता । तथा चार्थतो मोहीभावनोक्ता । यतस्तल्लक्षणं चेदम्
"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती य ।
मोहेण य मोहित्ता संमोहं भावणं कुणति" ॥१॥ त्ति । एतासां च फलम् ? यदाहु
"ऐयाओ भावणाओ भाविता देवदुग्गइं जंति ।
तत्तो य चुया संता पडंति भवसागरमणंतं" ॥२॥ ॥२६७॥ १. नित्यं व्युद्ग्रहशील: कृत्वा न चानुतप्यते पश्चात् ।
न च क्षामितः प्रसीदति अपराधिनोईयोरपि ॥१॥ २. उन्मार्गदेशको मार्गनाशको मार्गविप्रतिवर्ती च ।
मोहेन च मोहयित्वा सम्मोही भावनां करोति ॥१॥ इति । ३. एता भावना भावयित्वा देवदुति यान्ति ।।
ततश्च च्युताः सन्तः पतन्ति भवसागरमन्तरम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516