SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ८७१ रोषप्रसरः । नित्यं विरोधशीलतया पश्चात्तापाकरणतया क्षामणादावपि मनःप्रसत्त्यप्राप्तेरिति भावः । यदुक्तम् "निच्चं वुग्गहसीलो काऊण ण याणुतप्पए पच्छा । ण य खामिओ पसीयइ अवराहीणं दुवेण्हं पि" ॥१॥ तथा च निमित्तमतीतानागत-वर्तमानादिभेदात् त्रिधा तस्मिन् विषये प्रतिसेवीत्यवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरी भावनां करोति ॥२६६॥ मोहीभावनामाह सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणायारभंडसेवा जम्मण-मरणाणि बंधंति ॥२६७॥ व्याख्या-शस्त्रं खड्गादि तस्य ग्रहणम् 'उपलक्षणत्वादात्मनि वधार्थं व्यापारणम्' शस्त्रग्रहणम् । विषं तालपुटादि तस्य भक्षणं विषभक्षणं च । ज्वलनं भस्मीकरणम् 'आत्मन इति गम्यते' । जले प्रवेशो निमज्जनं जलप्रवेशः । 'चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः' । आचारः शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा 'गम्यमानत्वादेतानि कुर्वन्तो यतयः' जन्म-मरणानि 'उपचारात् तद्धेतुकर्माणि' बध्नन्त्यात्मना श्लेषयन्ति । संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता । तथा चार्थतो मोहीभावनोक्ता । यतस्तल्लक्षणं चेदम् "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती य । मोहेण य मोहित्ता संमोहं भावणं कुणति" ॥१॥ त्ति । एतासां च फलम् ? यदाहु "ऐयाओ भावणाओ भाविता देवदुग्गइं जंति । तत्तो य चुया संता पडंति भवसागरमणंतं" ॥२॥ ॥२६७॥ १. नित्यं व्युद्ग्रहशील: कृत्वा न चानुतप्यते पश्चात् । न च क्षामितः प्रसीदति अपराधिनोईयोरपि ॥१॥ २. उन्मार्गदेशको मार्गनाशको मार्गविप्रतिवर्ती च । मोहेन च मोहयित्वा सम्मोही भावनां करोति ॥१॥ इति । ३. एता भावना भावयित्वा देवदुति यान्ति ।। ततश्च च्युताः सन्तः पतन्ति भवसागरमन्तरम् ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy