SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ८७० उत्तरज्झयणाणि-२ "काया वया य ते च्चिय ते चेव पमायमप्पमाया य। मोक्खाहिगारियाणं जोइस-जोणीहि किं च पुणो" ? ॥१॥ केवलिनां च, ज्ञान-दर्शनयोः क्रमेणोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिः । उक्तं च "एंगतरसमुप्पाए अण्णोण्णावरणया दुवेण्हं पि । केवलदसण-णाणाणमेगकाले च एगत्तं" ॥१॥ धर्मचार्यस्य, जात्यादिभिरधिक्षेपणादीति । उक्तं च "जैच्चाईहिं अवण्णं विहसइ वट्टइ ण यावि उववाए । अहिओ च्छिद्दप्पेही पगासवाई अणणुकूलो" ॥१॥ सङ्घस्य च, बहवः श्व-शृगालादिसङ्घाताः कोऽयमिह सङ्घः । साधूनां च, नामी परस्परमपि सहन्ते । तत एव देशान्तरयायिनोऽन्यथा त्वेकत्रैव संहत्या तिष्ठेयुः । अत्वरित-गतयो मन्दयायिन अत एव बकवृत्तिरियमेषामित्यादि । एवंविधमवर्णं वदितुं शीलमस्येत्यवर्णवादी । मायाऽस्य स्वस्वभावविनिगूहनादिनाऽस्तीति मायी । यथोक्तम् "गूहइ आयसहावं घायइ य गुणे परस्स संते वि । चोरो व्व सव्वसंकी गूढायारो वितहभासी" ॥१॥ कैल्बिषिकी भावनां करोति ॥२६५।। 'विचित्रत्वात् सूत्रकृतेः' मोहीप्रस्तावेऽपि प्रागासुरीभावनामाह अणुबद्धरोसपसरो तह य निमित्तंमि होइ पडिसेवी । एएहि कारणेहिं य आसुरियं भावणं कुणइ ॥२६६॥ व्याख्या-अनुबद्धः सन्ततोऽव्यवच्छिन्नो रोषस्य क्रोधस्य प्रसरोऽस्येत्यनुबद्ध १. काया व्रतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं च पुनः ? ॥१॥ २. एकतरसमुत्पादेऽन्योन्यावरणता द्वयोरपि । केवलदर्शन-ज्ञानयोरेककाले चैकत्वम् ॥१॥ ३. जात्यादिभिरवर्णं विहसति वर्तते न चाप्युपपाते । अहित: च्छिद्रप्रेक्षी प्रकाशवादी अननुकूलः ॥१॥ ४. गूहते आत्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की गूढाकारो वितथभाषी ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy