________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८६९ नानाजीवविरुतानि मुखातोद्यवाद्यतां च विधत्ते तद् वाक्कौत्कुच्यम् । ततः कन्दर्पश्च कौत्कुच्यं च कन्दर्प-कौत्कुच्ये 'कुर्वन्निति शेषः' । तथा शीलं च फलनिरपेक्षा वृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादि, हासश्चाट्टहासादिः, विकथाश्च परविस्मापकविविधोल्लापाः, शील-स्वभाव-हास-विकथास्ताभिर्विस्मापयंश्च विस्मितं कुर्वन् परमन्यम् । कन्दर्पयोगात् कन्दर्पाः 'प्रस्तावाद् देवाः' तेषामियं तेषूत्पत्तिहेतुतया कान्दपी तां भाव्यते आत्मसान्नीयते आत्माऽनयेति भावना तद्भवाभ्यासरूपा तां करोति । एवमुत्तरत्रापि भावनीयम् ॥२६३।। आभियोगिकीभावनामाह
मंताजोगं काउं भूईकम्मं च जे पउंजंति ।
सायरसइडिहेडं अभिओगं भावणं कुणइ ॥२६४॥ व्याख्या-मन्त्राः प्रागुक्तरूपास्तेषामायोगो व्यापारो मन्त्रायोगः । यदि वा मन्त्राश्च योगाश्च तथाविधद्रव्यसंयोगाः 'सूत्रत्वात्' मन्त्रयोगं तत् कृत्वा व्यापार्य, भूत्या भस्मना 'उपलक्षणत्वान्मृदा सूत्रेण वा' कर्म रक्षार्थं वसत्यादेः परिवेष्टनं भूतिकर्म 'चशब्दात् कौतुकादि' च यः प्रयुङ्क्ते । किमर्थम् ? सातं सुखम्, रसा माधुर्यादयः, ऋद्धिरुपकरणादिसम्पद्, एता हेतवो यस्मिस्तत् सात-रसद्धिहेतु । को भावः ? साताद्यर्थं मन्त्रयोगादि प्रयुङ्क्ते । एवमाभियोगी भावनां करोति । इह च साताद्यर्थाभिधानम्, नि:स्पृहस्यापवादत एतत्प्रयोगे प्रवचनप्रभावनादिगुण एवेति ख्यापनार्थम् । उक्तं हि
“ऐयाणि गारवट्ठा कुणमाणो आभिओगियं बंधे ।
बीइओ गारवरहिओ कुव्वइ आराहओ अबंधा" ॥१॥ ॥२६४॥ किल्बिषिकीभावनामाह
नाणस्स केवलीणं धम्मायरियस्स संघ-साहूणं ।
माई अवन्नवाई किदिवसियं भावणं कुणइ ॥२६५॥ व्याख्या-ज्ञानस्य श्रुतज्ञानादेः, केवलिनाम्, धर्माचार्यस्य धर्मोपदेशकस्य, सङ्घश्च साधवश्च तेषाम्, मायी वञ्चकः । अवर्णवादी निन्दकः । तत्रावर्णोऽश्लाघारूप: स चैवम्-श्रुतज्ञानस्य, पुनःपुनस्त एव कायास्तान्येव व्रतानि, तावेव च प्रमादाप्रमादाविहाभिधेयौ । मोक्षाधिकारिणां च किं ज्योतिर्योनिपरिज्ञानेन ? इत्यादि भाषते । यदाह
१. एतानि गौरवार्थ कुर्वाण आभियोगिकं बध्नाति । द्वितीयो गौरवरहित: करोत्याराधकोऽबन्धात् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org