________________
८६८
उत्तरज्झयणाणि-२ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि ।
मरिहंति ते वराया जिणवयणं जे न याणंति ॥२६१॥ व्याख्या-'सुब्ब्यत्ययात्' बालमरणैर्विषभक्षणोद्बन्धादिनिबन्धनैर्बहुशोऽनेकधा, अकाममरणैरनिच्छामरणैश्च बहुभिः 'एवेति पूरणे' । मरिष्यन्ति ते वराका बहुदुःखभाजनतयाऽनुकम्पनीया जिनवचनं ये न जानन्ति 'ज्ञानफलत्वादनुष्ठानस्य' न चानुतिष्ठन्तीति ।।२६१।।
अतो जिनवचनं भावतः कर्त्तव्यम् । तद् भावकरणं चालोचनया । सा च तच्छ्रवणार्हाणामेव देयाऽतस्तानाह
बहुआगमविन्नाणा समाहिउप्पायगा य गुणगाही ।
एएण कारणेणं अरिहा आलोयणं सोउं ॥२६२॥ व्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च तस्मिन् विशिष्टं ज्ञानमेषामिति बह्वागमविज्ञानाः । समाधेश्चित्तस्वास्थ्यस्योत्पादकाश्च । को भावः ? देश-कालशयादिविज्ञतया मधुर-गम्भीरप्रभृतिभणितिभिः समाधिमेवालोचनाऽऽदातृणामुत्पादयन्तीति । गुणग्राहिणश्च परेषां सद्भूतगुणग्रहणशीलाः । एतैर्बह्वागमविज्ञानत्वादिभिः कारणैरहा योग्या: 'भवन्त्याचार्यादय इति गम्यते' । आलोचनां विकटनाम् ‘अर्थात् परैर्दीयमानाम्' श्रोतुम् । एते एवालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते इति ॥२६२।।
सम्प्रति कन्दर्पादिभावनानां यत् परिहार्यत्वमुक्तम् । तत्र यत् कुर्वता ताः कृताः स्युस्तत्परिहारेणैव तासां परिहार इति ज्ञापनार्थमाह
कंदप्प-कोक्कुयाई तह सील-सहाव-हास-विगहाहिं ।
विम्हाविंतो य परं कंदप्पं भावणं कुणइ ॥२६३॥ व्याख्या-कन्दर्पः-अट्टहासहसनम्, अनिभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः, कामकथा, कामोपदेश-प्रशंसाश्च । यदुक्तम्
"कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा ।
कंदप्पकहाकहणं कंदप्पुवएस-संसा य" ॥१॥ कौत्कुच्यं द्विधा कायकौत्कुच्यं वाक्कौत्कुच्यं च, तत्राद्यं यत् स्वयमहसन्नेव भ्रू-नयनवदनादि तथा करोति यथाऽन्यो हसति । द्वितीयं तज्जल्पति येनान्यो हसति, तथा
१. कहकहकहस्य हसनं कन्दर्पोऽनिभृताश्च संलापाः ।
कन्दर्पकथाकथनं कन्दर्पोपदेश-शंसा च ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org