________________
८६७
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् 'सम्यग्दर्शनादीनामिति गम्यते' भवन्ति । इह चर 'मरणे' इत्यभिधानम्, पूर्वमेतत्सत्तायामप्यन्तकाले शुभभावनासद्भावे सुगतेरपि सम्भवोपदर्शनार्थम् ॥२५६॥
मिच्छादसणरत्ता सनियाणा हु हिंसगा ।
इय जे मरंति जीवा तेसिं पुण दुलहा बोही ॥२५७॥ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्वाभिनिवेषरूपं तस्मिन् रक्ता आसक्ता मिथ्यादर्शनरक्ताः, सह निदानेन साभिष्वङ्गप्रार्थनारूपेण वर्तन्त इति सनिदानाः, “हुः पूरणे' हिंसकाः प्राण्युपमर्दकारिण इत्येवंरूपा ये नियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिः प्रेत्य जिनधर्मप्राप्तिः ॥२५७॥
सम्मइंसणरत्ता अनियाणा सुक्कलेसमोगाढा ।
इय जे मरंति जीवा सुलहा तेर्सि भवे बोही ॥२५८॥ व्याख्या-सम्यग्दर्शनं तत्त्वरुचिरूपं तस्मिन् रक्ताः, अनिदानाः, शुक्ललेश्यामवगाढाः प्रविष्टा इति ये म्रियन्ते सुलभा तेषां बोधिः ॥२५८।।
मिच्छादंसणरत्ता सनिआणा कण्हलेसमोगाढा ।
इय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ॥२५९॥ व्याख्या-प्राग्वत् । ननु पुनरुक्तत्वान्निरर्थकमिदं सूत्रम्, हिंसकत्वाभिधानेन कृष्णलेश्यावगाहकत्वस्याप्युक्तत्वात् । नैवम्, विशेषज्ञापनार्थत्वादस्य । विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या । अन्यथा हि सामान्येन तद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद् व्यभिचार्येवेदं स्याद् । इह मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति गाथाऽर्थः ॥२५९॥ संलेखनादिमाहात्म्यमाह
जिणवयणे अणुरत्ता जिणवयणं जे करिति भावेणं ।
अमला असंकिलिट्ठा ते हंति परित्तसंसारी ॥२६०॥ व्याख्या-जिनवचनेऽनुरक्ता जिनवचनं तदुक्तानुष्ठानं ये कुर्वन्ति भावेनाऽऽन्तरपरिणामेन, न तु बहिर्वृत्त्यैव । अमला मिथ्यात्वादिभावमलरहिताः । असंक्लिष्टा रागादिसंक्लेशरहितास्ते भवन्ति 'परित्तः' समस्तदेवादिभवाल्पतापादनेन परिमितः स चासौ संसारश्च परित्तसंसारः स विद्यते येषां ते परित्तसंसारिणः कतिपयभवाभ्यन्तरमुक्तिभाज इत्यर्थः । 'प्राकृतत्वाद् वचनव्यत्ययः' ॥२६०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org