________________
८६६
उत्तरज्झयणाणि-२ द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात् । विकृष्टतपःपारणके कोटीसहितत्वाद्यविशेषितमाचाम्लं करोतीत्यर्थः ॥ इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे यत् कुर्यात् तदाहकोटावग्रभागे प्रत्याख्यानाद्यान्तकोणरूपे सहिते मिलिते यस्मिस्तत् कोटीसहितम् । का भावः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्यायतच्चाहोरात्रं प्रतिपाल्य पुनद्वितीयेऽह्नि आचाम्लमेव प्रत्याचष्टे । ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुभे अपि मिलिते भवत इति तत् कोटीसहितमुच्यते । अन्ये त्वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरं कृत्वा तृतीयदिने आचाम्लमेव कुर्व्वतः कोटीसहितमुच्यते । उभयार्थसंवादिनी चेयं गाथा
"पेट्रवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ य ।
जहियं समिति दोन्नि उ तं भणइ कोडिसहियं तु" ॥१॥ इत्थं कोटीसहितमाचाम्लं कृत्वा संवत्सरे ‘प्रक्रमाद् द्वादशे' मुनिः साधुः ‘मासद्ध'त्ति 'सूत्रत्वात्' मासे कृतो मासिकस्तेन । एवमर्धमासिकेन 'आहारेणं' ति पारणकाशनेन 'उपलक्षणत्वादाहारत्यागेन च' । तप इति 'प्रस्तावाद् भक्तपरिज्ञादिकमनशनम्' चरेदनुतिष्ठेत् । एतद्विस्तरः श्रीनिशीथचूर्णितोऽवसेयः । इति गाथापञ्चकार्थः ॥२५१-२५५।। । इत्थं प्रतिपन्नानशनस्याशुभभावनानां परिहार्यतामनर्थहेतुतां च दर्शयितुमाह
कंदप्पमाभिओगं किदिवसियं मोहमासुरत्तं च ।
एयाओ दुग्गईओ मरणंमि विराहिया हुंति ॥२५६॥ व्याख्या-'पदैकदेशे पदसमुदायोपचारात्' कन्दर्पति कन्दर्पभावना । एवमाभियोग्यभावना । किल्बिषिकभावना । मोहभावना । असुरत्वभावना च । एता: सर्वा अपि भावना दुर्गतिहेतुत्वेन दुर्गतयः 'कारणे कार्यातिदेशात्' । दुर्गतिश्चेह 'अर्थाद् देवदुर्गतिः' तद्वशतो हि व्यवहारतश्चारित्रे सत्यप्येतद्विधसुरनिकायोत्पत्तिरेव चारित्रविकलतया नानागतिभाक्त्वमिति । उक्तं हि
"जो संजओ वि एयासु अप्पसत्थासु भावणं कुणइ ।
सो तविहेसु गच्छइ सुरेसु भईओ चरणहीणो" ॥१॥ कदा ? इत्याह-मरणे मरणसमये । कीदृश्यः सत्यो दुर्गतयो भवन्त्येता: ? विराधिकाः
१. प्रस्थापनकश्च दिवस: प्रत्याख्यानस्य निष्ठापनकश्च ।
यत्र समितः द्वौ तु तद् भण्यते कोटिसहितं तु ॥१॥ २. यः संयतोऽप्येताभिरप्रशस्ताभिः भावनां करोति ।
स तद्विधेषु गच्छति सुरेषु, भक्तश्चरणहीनः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org