________________
८६५
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
"परिपालिओ य दीहो परियाओ वायणा तहा दिण्णा ।
निष्फाइया य सीसा सेयं मे अप्पणो काउं" ॥१॥॥२५०॥ सम्प्रति संलेखनाभेदाभिधानपूर्वकं क्रमयोगमाह
बारसेव उ वासाई संलेहुक्कोसिया भवे । संवच्छरं मज्झिमया छम्मासा य जहन्निया ॥२५१॥ पढमे वासचउक्क्रमि विगईनिज्जूहणं करे । बिइए वासचउक्वंमि विचित्तं तु तवं चरे ॥२५२॥ एगंतरमायाम कट्ट संवच्छरे दुवे ।। तओ संवच्छरद्धं तु नाइविगिट्टं तवं चरे ॥२५३॥ तओ संवच्छरद्धं तु विगिट्टं तु तवं चरे । परिमियं चेव आयामं तंमि संवच्छरे करे ॥२५४॥ कोडीसहियमायाम कट्ट संवच्छरे मुणी ।
मासद्ध-मासिएणं तु आहारेणं तवं चरे ॥२५५॥ व्याख्या-द्वादशैव न तु न्यूनाधिकानि वर्षाणि संलेखनं द्रव्यतः शरीरस्य, भावतः कषायाणां कृशतापादनं संलेखनेत्यर्थः । उत्कृष्टा सर्वगुर्वी भवेत् । संवत्सरं वर्षं मध्यमिका । षण्मासा च पुनस्ततो जघन्यिका ॥ इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टायाः क्रमयोगमाह-प्रथमे आये वर्षचतुष्के विकृतिः क्षीरादिस्तस्य नि!हणमाचाम्लस्य निविकृतस्य वा करणेन परित्यागस्तं विचित्रतपसः पारणके 'करे'त्ति कुर्यात् । द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थ-षष्ठाष्टमादिरूपं तपश्चरेत् । अत्र च पारणके सम्प्रदायः'उग्गमविसुद्धं कप्पणिज्जं पारे' इति ॥ एकेन चतुर्थलक्षणेन तपसाऽन्तरं व्यवधानं यस्मिस्तदेकान्तरमायाममाचाम्लं 'कट्ट'त्ति कृत्वा संवत्सरौ द्वौ । ततस्तदनन्तरं संवत्सरार्धं मासषट्कं 'तुः पूरणे' नैवातिविकृष्टमष्टम-द्वादशादि तपश्चरेदासेवेत ॥ ततः संवत्सरार्धं षण्मासलक्षणं 'तुः पुनः' विकृष्टमेव 'तुरेवार्थे' तपश्चरेत् । अत्रैव विशेषमाह'परिमियं चेव'त्ति 'चः पूरणे' ततः परिमितमेव स्वल्पमेव आयाममाचाम्लं तस्मिन्नन्तरं
१. परिपालितश्च दीर्घः पर्यायो वाचना तथा दत्ता ।
निष्पादिताश्च शिष्याः श्रेयो मे आत्मनः कर्तुम् ॥१॥ २. उद्गमविशुद्धं कल्पनीयं पारयेत् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org