________________
८६४
उत्तरज्झयणाणि-२ स्थितित्वात् । इह चोक्तरूपयोरुत्कृष्ट-जघन्ययोरपान्तरालवर्तिनी मध्यमा स्थितिरिति सर्वत्र द्रष्टव्यम् ॥ तथा प्रथमे इति 'प्रक्रमात् ग्रैवेयके' अधस्तनाधस्तने । एवं द्वितीयादिग्रैवेयकेष्विति सम्बन्धनीयम् ॥ अविद्यमानं जघन्यमस्यामित्यजघन्या, तथा अविद्यमानमुत्कृष्टमस्यामित्यनुत्कृष्टा, अजघन्या चासावनुत्कृष्टा च 'मोऽलाक्षणिकः' । महच्च तदायुः स्थित्यपेक्षया विमानं च महाविमानं तच्च तत् सर्वेऽर्था अनुत्तरसुखादयो यस्मिस्तत् सर्वार्थं च महाविमानसर्वार्थं तस्मिन् । स्थितिरिति सर्वत्रायुःस्थितिः 'प्रक्रमाद् देवानाम्' ॥ तथाऽऽयुःस्थितेरेव कायस्थितित्वाभिधानेन तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिगाथार्थः । अन्तर-विधानाभिधायि सूत्रद्वयं पूर्ववद् व्याख्येयम् ॥२१९-२४७|| अथ निगमयितुमाह
संसारत्था य सिद्धा य इई जीवा वियाहिया ।
रूविणो चेवरूवी य अजीवा दुविहा वि य ॥२४८॥ व्याख्या-संसारस्थाश्च सिद्धाश्चेतीत्येवं जीवा व्याख्याताः । रूपिणश्चैव 'रूवी य' त्ति अकारप्रश्लेषादरूपिणश्चाजीवा अपि च द्विधा व्याख्याता इति ॥२४८॥ उपदेशमाह
इइ जीवमजीवे य सुच्चा सद्दहिऊण य ।
सव्वनयाण अणुमए रमेज्जा संजमे मुणी ॥२४९॥ व्याख्या-इतीत्येवं जीवाजीवान् श्रुत्वाऽवधार्य, श्रद्धाय च तथेति प्रतिपद्य । सर्वनयानां ज्ञान-क्रियानयान्तर्गतानां नैगमादीनामनुमतेऽभिप्रेते, कोऽर्थः ? ज्ञानसहितसम्यक्चारित्ररूपे रमेत रतिं कुर्यात् संयमे पृथिव्याधुपमर्दोपरमरूपे मुनिः ॥२४९।। ततश्च यद् विधेयं तदाह
तओ बहूणि वासाणि सामण्णमणुपालिय ।
इमेण कमजोगेण अप्पाणं संलिहे मुणी ॥२५०॥ व्याख्या-ततस्तदनन्तरं बहूनि वर्षाणि श्रामण्यं श्रमणभावमनुपाल्यानेन वक्ष्यमाणेन, क्रमः परिपाटी तेन योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेनात्मानं संलिखेद् द्रवयतो भावतश्च कृशीकुर्याद् मुनिरिति । यदुक्तम्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org