________________
८७२
उत्तरज्झयणाणि-२ इइ पाउकरे बुद्धे नायए परिनिव्वुए ।
छत्तीसं उत्तरज्झाए भवसिद्धीयसंमए ॥२६८॥ त्ति बेमि ॥ व्याख्या-इतीत्यनन्तरमुपवर्णिताम् ‘पाउकरे' त्ति 'सूत्रत्वात्' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य प्रज्ञाप्येत्यर्थः । किम् ? इत्याह-परिनिर्वतो निर्वाणं गत इति सम्बन्धः । कीदृशः सन् कः ? इत्याह-बुद्धः केवलज्ञानावगतसर्ववस्तुतत्त्वो ज्ञातजो ज्ञातकुलसम्भवः 'अर्थाद् भगवान् वर्द्धमानस्वामी' । षट्त्रिंशत्सङ्ख्यानुत्तराः प्रधाना अध्याया अध्ययनानि तत उत्तराश्च तेऽध्यायाश्चोत्तराध्यायास्तान् विनयश्रुतादीन् । भवसिद्धिका भव्यास्तेषां समिति भृशं मता अभिप्रेता भवसिद्धिकसंमतास्तान् । अथवा 'पाउकरे'त्ति प्रादुरकार्षीत् प्रकाशितवान् । तत्र परिनिर्वृतः क्रोधाद्युपशमत स्वस्थीभूतः ।। नियुक्तिकारोऽप्येतन्माहात्म्यमाह
"जे किर भवसिद्धीया परित्तसंसारिया य जे भव्वा ।
ते किर पढंति एए छत्तीसं उत्तरज्झाए" ॥१॥ व्याख्या-ये इत्यनिर्दिष्टनिर्देशाः 'किलेति सम्भावने' भवसिद्धिका भव्याः । 'परित्तः' परिमितश्चासौ संसारश्च परित्तसंसारः स विद्यते येषां ते परित्तसंसारिका आसन्नसिद्धिकाः । भव्याः सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इत्यर्थः । 'चः समुच्चये' । ते एव 'किलेति परोक्षाप्तवादे' पठन्त्यधीयन्ते । एतानि षट्त्रिंशदुत्तराध्ययनानि विनयाख्यादीनि ॥१॥ ततो यद् विधेयं तदाह
"तम्हा जिणपन्नत्ते अणंतगम-पज्जवेहि संजुत्ते ।
अज्झाए जहजोगं गुरुप्पसाया अहिज्जेज्जा" ॥२॥ व्याख्या-तस्माज्जिनैः श्रुतजिनादिभिः प्रज्ञप्ताः प्ररूपिता जिनप्रज्ञप्तास्तान् । अनन्ताश्च ते गमाश्चार्थावबोधप्रकाराः पर्यवाश्च शब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः संयुक्तास्तान् अध्यायान् 'प्रक्रमादुत्तराध्यायान्' 'जहाजोगं'ति योग उपधानाधुचितव्यापारस्तदनतिक्रमेण यथायोगम् । गुरूणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तस्माद् हेतोरधीयेत पठेन्न त्वेतदध्ययनयोग्यताऽवाप्तौ प्रमादं कुर्यादिति भावः । एतेनाध्ययनार्थिना हि गुरवोऽवश्यं प्रसादनीयास्तदधीनत्वात् तस्येति ॥२॥ इति परिसमाप्तौ । ब्रवीमीति गणधरोपदेशेनेति ॥२६८|| ग्रन्थाग्रम् ७०८॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनं समाप्तम् ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org