Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 444
________________ ८६८ उत्तरज्झयणाणि-२ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याणंति ॥२६१॥ व्याख्या-'सुब्ब्यत्ययात्' बालमरणैर्विषभक्षणोद्बन्धादिनिबन्धनैर्बहुशोऽनेकधा, अकाममरणैरनिच्छामरणैश्च बहुभिः 'एवेति पूरणे' । मरिष्यन्ति ते वराका बहुदुःखभाजनतयाऽनुकम्पनीया जिनवचनं ये न जानन्ति 'ज्ञानफलत्वादनुष्ठानस्य' न चानुतिष्ठन्तीति ।।२६१।। अतो जिनवचनं भावतः कर्त्तव्यम् । तद् भावकरणं चालोचनया । सा च तच्छ्रवणार्हाणामेव देयाऽतस्तानाह बहुआगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरिहा आलोयणं सोउं ॥२६२॥ व्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च तस्मिन् विशिष्टं ज्ञानमेषामिति बह्वागमविज्ञानाः । समाधेश्चित्तस्वास्थ्यस्योत्पादकाश्च । को भावः ? देश-कालशयादिविज्ञतया मधुर-गम्भीरप्रभृतिभणितिभिः समाधिमेवालोचनाऽऽदातृणामुत्पादयन्तीति । गुणग्राहिणश्च परेषां सद्भूतगुणग्रहणशीलाः । एतैर्बह्वागमविज्ञानत्वादिभिः कारणैरहा योग्या: 'भवन्त्याचार्यादय इति गम्यते' । आलोचनां विकटनाम् ‘अर्थात् परैर्दीयमानाम्' श्रोतुम् । एते एवालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते इति ॥२६२।। सम्प्रति कन्दर्पादिभावनानां यत् परिहार्यत्वमुक्तम् । तत्र यत् कुर्वता ताः कृताः स्युस्तत्परिहारेणैव तासां परिहार इति ज्ञापनार्थमाह कंदप्प-कोक्कुयाई तह सील-सहाव-हास-विगहाहिं । विम्हाविंतो य परं कंदप्पं भावणं कुणइ ॥२६३॥ व्याख्या-कन्दर्पः-अट्टहासहसनम्, अनिभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः, कामकथा, कामोपदेश-प्रशंसाश्च । यदुक्तम् "कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदप्पकहाकहणं कंदप्पुवएस-संसा य" ॥१॥ कौत्कुच्यं द्विधा कायकौत्कुच्यं वाक्कौत्कुच्यं च, तत्राद्यं यत् स्वयमहसन्नेव भ्रू-नयनवदनादि तथा करोति यथाऽन्यो हसति । द्वितीयं तज्जल्पति येनान्यो हसति, तथा १. कहकहकहस्य हसनं कन्दर्पोऽनिभृताश्च संलापाः । कन्दर्पकथाकथनं कन्दर्पोपदेश-शंसा च ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516