Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 442
________________ ८६६ उत्तरज्झयणाणि-२ द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात् । विकृष्टतपःपारणके कोटीसहितत्वाद्यविशेषितमाचाम्लं करोतीत्यर्थः ॥ इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे यत् कुर्यात् तदाहकोटावग्रभागे प्रत्याख्यानाद्यान्तकोणरूपे सहिते मिलिते यस्मिस्तत् कोटीसहितम् । का भावः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्यायतच्चाहोरात्रं प्रतिपाल्य पुनद्वितीयेऽह्नि आचाम्लमेव प्रत्याचष्टे । ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुभे अपि मिलिते भवत इति तत् कोटीसहितमुच्यते । अन्ये त्वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरं कृत्वा तृतीयदिने आचाम्लमेव कुर्व्वतः कोटीसहितमुच्यते । उभयार्थसंवादिनी चेयं गाथा "पेट्रवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समिति दोन्नि उ तं भणइ कोडिसहियं तु" ॥१॥ इत्थं कोटीसहितमाचाम्लं कृत्वा संवत्सरे ‘प्रक्रमाद् द्वादशे' मुनिः साधुः ‘मासद्ध'त्ति 'सूत्रत्वात्' मासे कृतो मासिकस्तेन । एवमर्धमासिकेन 'आहारेणं' ति पारणकाशनेन 'उपलक्षणत्वादाहारत्यागेन च' । तप इति 'प्रस्तावाद् भक्तपरिज्ञादिकमनशनम्' चरेदनुतिष्ठेत् । एतद्विस्तरः श्रीनिशीथचूर्णितोऽवसेयः । इति गाथापञ्चकार्थः ॥२५१-२५५।। । इत्थं प्रतिपन्नानशनस्याशुभभावनानां परिहार्यतामनर्थहेतुतां च दर्शयितुमाह कंदप्पमाभिओगं किदिवसियं मोहमासुरत्तं च । एयाओ दुग्गईओ मरणंमि विराहिया हुंति ॥२५६॥ व्याख्या-'पदैकदेशे पदसमुदायोपचारात्' कन्दर्पति कन्दर्पभावना । एवमाभियोग्यभावना । किल्बिषिकभावना । मोहभावना । असुरत्वभावना च । एता: सर्वा अपि भावना दुर्गतिहेतुत्वेन दुर्गतयः 'कारणे कार्यातिदेशात्' । दुर्गतिश्चेह 'अर्थाद् देवदुर्गतिः' तद्वशतो हि व्यवहारतश्चारित्रे सत्यप्येतद्विधसुरनिकायोत्पत्तिरेव चारित्रविकलतया नानागतिभाक्त्वमिति । उक्तं हि "जो संजओ वि एयासु अप्पसत्थासु भावणं कुणइ । सो तविहेसु गच्छइ सुरेसु भईओ चरणहीणो" ॥१॥ कदा ? इत्याह-मरणे मरणसमये । कीदृश्यः सत्यो दुर्गतयो भवन्त्येता: ? विराधिकाः १. प्रस्थापनकश्च दिवस: प्रत्याख्यानस्य निष्ठापनकश्च । यत्र समितः द्वौ तु तद् भण्यते कोटिसहितं तु ॥१॥ २. यः संयतोऽप्येताभिरप्रशस्ताभिः भावनां करोति । स तद्विधेषु गच्छति सुरेषु, भक्तश्चरणहीनः ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516