________________
८५३
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए नेरइयाणं तु अंतरं ॥१६८॥ एएसिं वन्नओ चेव गंधओ रस-फासओ।
संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥१६९॥ आसां व्याख्या-नैरयिकाः सप्तविधाः सप्तप्रकाराः । यतः पृथिवीषु सप्तसु भवेयुस्ततस्तद्भेदात् तेषां सप्तविधत्वमिति भावः । कास्ताः सप्त ? इत्याह-'रयणाभ'त्ति रत्नानां वैडूर्यादीनामाभा स्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत् तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात् । एवं सर्वत्र । नवरं शर्करा श्लक्षणपाषाणशकलरूपा तदाभा । 'धूमाभ'त्ति यद्यपि तत्र धूमासम्भवस्तथापि तदाकारपरिणतानां पुद्गलानां च सम्भवात् धूमाभात्वम् । तमोरूपत्वाच्च तमःप्रभा । प्रकृष्टतरतमस्त्वाच्च तमस्तमा । इत्यनेन पृथिवीसप्तविधत्वप्रकारेण नैरयिका एते सप्तधा परिकीर्तिताः ॥ क्षेत्रतो लोकस्यैकदेशे ते नैरयिका व्याख्याताः । इतोऽनन्तरं कालविभागं वक्ष्ये चतुर्विधम् ॥ चतुर्विधत्वमेवाह-कालतः सन्ततिं प्राप्यानाद्यपर्यवसितत्वम् । स्थिति प्राप्य सादिसपर्यवसितत्वमिति ॥ सागरोपममेकं तूत्कृष्टेन व्याख्याता प्रथमायां नरकपृथिव्यां जघन्येन दशवर्षसहस्त्रिका 'प्रस्तावादायुः स्थिति:रयिकाणाम्' इतीहोत्तरसूत्रेषु च द्रष्टव्यम् ॥ त्रीण्येव सागरोपमाणि तूत्कृष्टेनाख्याता द्वितीयायां जघन्येन पुनरेकं सागरोपमम् । सप्त सागरोपमाणि तूत्कृष्टेन तृतीयायां जघन्येन पुनस्त्रीण्येव तानि ॥ दश सागरोपमाणि तूत्कृष्टेन चतुर्थ्यां जघन्येन सप्तैव ॥ सप्तदश सागरोपमाणि तूत्कृष्टेन पञ्चम्यां जघन्येन दशैव ॥ द्वाविंशतिसागरोपमाण्युत्कृष्टेन षष्ठ्यां जघन्येन सप्तदशैव ॥ त्रयस्त्रिंशत् सागरोपमाणि तूत्कृष्टेन व्याख्याता सप्तमनरकपृथिव्यां जघन्येन द्वाविंशतिसागरोपमा ॥ आयुःस्थितिरुक्ता कायस्थितिमाह-या चैव पुनरायुःस्थितिनैरयिकाणां व्याख्याता सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेद् । यतस्ते तत उवृत्ताः पुनस्तत्र नोत्पद्यन्ते, किन्तु गर्भज-पर्याप्त-सङ्ख्येयवर्षायुषेष्वेवेति ॥ अन्तर-भावाभिधायकं सूत्रद्वयं प्राग्वत् । नवरमन्तर्मुहूर्तं जघन्यमन्तरं यदाऽन्यतरनरकादुद्वृत्य कश्चिज्जीवो गर्भजपर्याप्ता-मत्स्यादिषूत्पद्यते । तत्रातिसङ्क्लिष्टाध्यवसायोऽन्तर्मुहूर्त्तमायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावः । इति चतुर्दशसूत्रार्थः ॥१५६-१६९॥ अथ तिरश्चामाह- .
पंचिंदियतिरिक्खा उ दुविहा ते वियाहिया । संमच्छिमतिरिक्खा उ गब्भवक्वंतिया तहा ॥१७०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org