Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 277
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ १२९], भाष्यं [-] वि० भा० गाथा [ १४००, १४०२ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ॥ १३१ ॥ उपोद्घात- मजीवपज्जवादि अनंता" इत्यादि, उक्तो द्रव्याणामनुयोगः, सम्प्रति द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा अनुयोगो भाव्यते, निर्युक्तिः ७ तत्र एकया खटिकया एकेन प्रलेपेनैकेनाक्षादिना वा कृत्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, यस्तु बहुभिरक्षादिभिः स द्रव्यैरनुयोगः, यस्तु द्रव्ये फलकादावुपविष्टेनानुयोगः क्रियते स द्रव्येऽनुयोगः, यस्तु बहुषु फलकेषु प्रभूतासु वा निषद्यासूपविष्टेन स द्रव्येष्वनुयोगः, तथा क्षेत्रस्यैकस्य जम्बूद्वीपादेरनुयोगो यथा जम्बूद्वीपप्रज्ञप्तिः, तस्या जम्बूद्वीपलक्षणेकक्षेत्रव्याख्यानरूपत्वात्, बहूनां क्षेत्राणामनुयोगो यथा द्वीपसागरप्रज्ञप्तिः, बहूनां द्वीपसमुद्राणां तथा व्याख्यानात्, | क्षेत्रेणानुयोगो यथा पृथिवीकायिकादिसत्वा व्याख्यानं जम्बूद्वीपं प्रस्थकं कृत्वा, उक्तं च- "जंबुद्दीवपमाणा, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखेज्जा ॥ १ ॥” (वि. १४००) क्षेत्रैरनुयोगो यथा बहुद्वीपसमुद्रप्रमाणं प्रस्थनं कृत्वा पृथिवीकायादिसङ्ख्याभणनम्, उक्तं च-- "खेतेहिं बहुदीवेहिं पुढविजियाणं तु पत्थयं काउं । एवं मवि - | जमाणा हवंति लोगा असंखेज्जा ॥ १ ॥” (१४०२) क्षेत्रेऽनुयोगस्तिर्यग्लोके भरतादौ वा क्षेत्रेष्वनुयोगोऽर्द्धतृतीयेषु द्वीपसमुद्रेषु, | कालस्यानुयोगो यथा समयस्यानुयोगद्वारेषु प्ररूपणा, कालानामनुयोगः प्रभूतानां समयावलिकादीनां प्ररूपणा, कालेनानुयोगो यथा वादरवायुकायिकानां वैक्रियशरीराणि अद्धापल्योपमस्यासङ्ख्येय भागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नास कायिकाः प्रतिसमयमेकैकापहारेणापह्रियमाणा असङ्ख्याभिरुत्सपिण्यवसर्पिणीभिरपश्यिन्ते इति, कालेऽनुयोगो द्वितीयपौरुपयां, कालेषु अनुयोगो यथा अवसर्पिण्यां तृतीयचतुर्थपञ्चमेष्वारकेषु तद्यथा-सुषमाचरमभागे दुष्पमसुषमायां पुष्पमायां चेति, उत्सर्पिण्यां कालद्वये दुष्पमसुषमायां सुषमदुष्पमायां । वचनस्यानुयोगो यथा इत्थम्भूत For Pivate & Personal Use Only Jan Education in ~277~ अनुयोगनिक्षेपाः ॥ १३१ ॥ jainslorary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307