________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र -१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ १२९], भाष्यं [-] वि० भा० गाथा [ १४००, १४०२ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
॥ १३१ ॥
उपोद्घात- मजीवपज्जवादि अनंता" इत्यादि, उक्तो द्रव्याणामनुयोगः, सम्प्रति द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा अनुयोगो भाव्यते, निर्युक्तिः ७ तत्र एकया खटिकया एकेन प्रलेपेनैकेनाक्षादिना वा कृत्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, यस्तु बहुभिरक्षादिभिः स द्रव्यैरनुयोगः, यस्तु द्रव्ये फलकादावुपविष्टेनानुयोगः क्रियते स द्रव्येऽनुयोगः, यस्तु बहुषु फलकेषु प्रभूतासु वा निषद्यासूपविष्टेन स द्रव्येष्वनुयोगः, तथा क्षेत्रस्यैकस्य जम्बूद्वीपादेरनुयोगो यथा जम्बूद्वीपप्रज्ञप्तिः, तस्या जम्बूद्वीपलक्षणेकक्षेत्रव्याख्यानरूपत्वात्, बहूनां क्षेत्राणामनुयोगो यथा द्वीपसागरप्रज्ञप्तिः, बहूनां द्वीपसमुद्राणां तथा व्याख्यानात्, | क्षेत्रेणानुयोगो यथा पृथिवीकायिकादिसत्वा व्याख्यानं जम्बूद्वीपं प्रस्थकं कृत्वा, उक्तं च- "जंबुद्दीवपमाणा, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखेज्जा ॥ १ ॥” (वि. १४००) क्षेत्रैरनुयोगो यथा बहुद्वीपसमुद्रप्रमाणं प्रस्थनं कृत्वा पृथिवीकायादिसङ्ख्याभणनम्, उक्तं च-- "खेतेहिं बहुदीवेहिं पुढविजियाणं तु पत्थयं काउं । एवं मवि - | जमाणा हवंति लोगा असंखेज्जा ॥ १ ॥” (१४०२) क्षेत्रेऽनुयोगस्तिर्यग्लोके भरतादौ वा क्षेत्रेष्वनुयोगोऽर्द्धतृतीयेषु द्वीपसमुद्रेषु, | कालस्यानुयोगो यथा समयस्यानुयोगद्वारेषु प्ररूपणा, कालानामनुयोगः प्रभूतानां समयावलिकादीनां प्ररूपणा, कालेनानुयोगो यथा वादरवायुकायिकानां वैक्रियशरीराणि अद्धापल्योपमस्यासङ्ख्येय भागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नास कायिकाः प्रतिसमयमेकैकापहारेणापह्रियमाणा असङ्ख्याभिरुत्सपिण्यवसर्पिणीभिरपश्यिन्ते इति, कालेऽनुयोगो द्वितीयपौरुपयां, कालेषु अनुयोगो यथा अवसर्पिण्यां तृतीयचतुर्थपञ्चमेष्वारकेषु तद्यथा-सुषमाचरमभागे दुष्पमसुषमायां पुष्पमायां चेति, उत्सर्पिण्यां कालद्वये दुष्पमसुषमायां सुषमदुष्पमायां । वचनस्यानुयोगो यथा इत्थम्भूत
For Pivate & Personal Use Only
Jan Education in
~277~
अनुयोगनिक्षेपाः
॥ १३१ ॥
jainslorary.org