________________
आगम
(०३)
प्रत
सूत्रांक
[६०३ ]
दीप
अनुक्रम
[७०८]
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [६०३ ]
स्थान [८],
उद्देशक [-1,
- र्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचार:- अनुष्ठानं स एव सम्पत्- विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिः आचारसम्पत्, सा च चतुर्द्धा तद्यथा-संयमधुवयोगयुक्तता, चरणे नित्यं समाभ्युपयुक्ततेत्यर्थः १ असंप्रग्रहः आत्मनो जात्याद्युत्सेकरूपग्राहवर्जनमिति भावः २ अनियतवृत्तिः अनियतविहार इति योऽर्थः ३ वृद्धशीलता वपुर्मनसो निर्विकारतेतियावत् ४, एवं श्रुतसम्पत्, साऽपि चतुर्द्धा तद्यथा - बहुश्रुतता युगप्रधानागमतेत्यर्थः १ परिचितसूत्रता २ विचित्रसूत्रता स्वसमयादिभेदात् ३ घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति ४, शरीरसम्पञ्चतुर्द्धा, | तद्यथा-आरोहपरिणाहयुक्तता उचितदैर्घ्यविस्तरतेत्यर्थः १ अनघत्रपता अलज्जनीयाङ्गतेत्यर्थः २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता चेति ४, वचनसम्पन्ञ्चतुर्द्धा तद्यथा - आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः ३ असन्दिग्धवचनता चेति ४, वाचनासम्पच्चतुर्द्धा तद्यथा - विदित्वोदेशनं १ विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४, मतिसम्पच्चतुर्द्धा, अवग्रहेहापायधारणाभेदादिति, प्रयोगसम्पञ्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये १ पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि ४, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञा-ज्ञानं नाम अभिधानमष्टमीसम्पत्, सा च चतुर्विधा, तद्यथा - बालादियोग्यक्षेत्रविषया १ पीठफलकादिविषया २ यथासमयं स्वाध्यायभिक्षादिविषया ३ यथो चितविनयविषया चेति ४ ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह- 'एकेत्यादि, ए
Education intimational
For Fans Only
मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [०३], अंग सूत्र [०३ ]
~848~
www.janbay.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः