Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1041
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७७१] (०३) प्रत सूत्रांक [७७१] ॐ5555 'दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, 'एकेने त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पश शतानि पश्चाशदधिकानि भवन्तीति, 'अहामुत्त'मित्यादि, अहामुत्तं-सूत्रानतिक्रमेण, यावत्करणात 'अ-12 हाअत्यं' अर्थस्य-निर्युक्त्यादेरनतिक्रमेण 'अहातच' शब्दार्थानतिक्रमेण 'अहामग्गं' क्षायोपशमिकभावानतिक्रमण 'अ-| हाकप्पं तदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण 'फासिया' विशुद्धपरिणामप्रतिपत्त्या 'पालिया' सीमां यावत्तपरिणामाहान्या 'शोधिता निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, कीर्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् 'भवति' जायत इति । प्रतिमाभ्यासः संसारक्षयाथै संसारिभिः क्रियत इति संसारिणो जीवान् जीयाधिकारात् सर्वजीवांश्च 'दसे'त्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्त्वितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आह च-'एवं जावेत्यादि, 'अणिदिय'त्ति अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति ॥ संसारिपर्यायविशेषप्रतिपादनायैवाह वाससताउस्स णं पुरिसस्स दस दसाओ पं० २०-बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ । पर्वाचा ७ पडभारा ८ य, मुंमुही ९ सावणी १० तधा ।। (सू०७७२) 'वासे'त्यादि, वर्षशतमायुयंत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद् वर्षशतायुष्का, दीप अनुक्रम [९९४] ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 1040~

Loading...

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059