Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०३)
प्रत
सूत्रांक
[७५७]
दीप
अनुक्रम
[९७७]
"स्थान"
स्थान [१०],
-
अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [-],
मूलं [७५७ ]
raणसतिकातिताणं उकोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहणणेणं दस वाससहस्साई ठिई पं० १६ भलोगे कप्पे उकोलेणं देवाणं दस सागरोवमाई ठिती पं० १७ संतते कप्पे देवाणं जहणणेणं दस सागरोबमाई ठिती पं० १८ (सू० ७५७)
'दसविहे 'त्यादि, सूत्राणि चतुवैिशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो - वर्त्तमानः समयः तत्रोपपन्नका अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां व्यादयः समया जातास्ते पर | म्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनम्तर - प्रदेशेष्ववगाढा अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढा :- अनन्तरावगाढा एतद्विलक्षणाः परम्पराव गाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान् - अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्व व्यवहितान् सतः पुद्गलान् स्वक्षेत्र मागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे खितरे, अयं तु द्रव्यकृतो भेद इति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति चरमनारकभवयुक्तत्वाश्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । 'एव' मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतु विंशतिदण्डको तानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः अथ तदाधारान् नार
For FPs Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~1030~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
cibrary org

Page Navigation
1 ... 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059