Book Title: Yogshastra Part 04 Author(s): Hemchandracharya, Vijaydharmsuri Publisher: Asiatic Society of Bengal View full book textPage 4
________________ “५८४ । योगशास्त्रे दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा क न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद्दोषबहुलत्वमुपलभ्यते, तथापि कांसांचिद् गुणबहुलत्वमप्यस्ति। तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तगुणगरिमयोगितया सुरेन्द्ररपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अन्याहुः___ निरतिशयं गरिमाणं तेन युवत्या वदन्ति विद्वांसः । - तं कमपि वहति गर्भ जगतामपि यो गुरुर्भवति ॥१॥ इति ॥ काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितं स्थलभिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घ चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । मुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्वगुणाः, सुरेन्द्ररपि स्वर्गभूमिषु पुन: पुनर्बहुमतचारित्राः प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यवसम्पदः, काश्चिञ्चरमदेहाः, काश्चि-. वित्रिभवान्तरितमोक्षगमना: शास्त्रेषु श्रूयन्ते। तदासां जननीनामिव भगिनीनामिव वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवोत्यश्यामः। दुष्पसहर्याक्षणी नागिलाख्या व्रतिव्रतिनौ श्रावकवदपथिमा सत्यधीः। तत्कथं श्राविकाः पापवद्दनितानिदर्शनेन दूष्यन्ते ? । तस्माद्दरण न परिहरणीयाः, वात्सल्यं चासां करणीयमित्यलं प्रसङ्गेन। न केवलं सप्तक्षेत्रयां धनं वपन महाश्रावक उच्यते, किन्त्वतिदीनेष्वपि नि:खान्धबधिरपङ्गुरोगातप्रभृतिषु कृपया केवलया धनं वपन्, न तु भत्या । भक्तिपूर्वकं हि सप्तक्षेत्रां यथोचितं दानम् । अतिदीनेषु त्वविचारितपानापात्रमविमृष्टकल्पनीयाकल्पनीयप्रकारं केवलयैव करणया स्वधनस्य वपनं न्याय्यम् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44