Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 29
________________ तृतीयः प्रकाशः । शौयादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौय्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया तदुच्छेदं प्रति क्रूरता क्रोधादौन् प्रत्यसहनतया रागादीन् प्रति वीर्ययोगेन तपः कर्म प्रति वीरतया ख्याताः, तथा एषामवज्ञा परोष हेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्गे, न खेदः संयमाध्वनि, न प्रकम्पो ध्याने, न चैवमुपमा मृषा तद्वारेण तदसाधारणगुणाभिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते विजातीयेनोपमायां तत्सहधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तिः । यदाहु:ते विरुद्धोपमायोगे तम्मापत्त्या तदवस्तुत्वमिति तहापोहायाहपुरुषवरपुण्डरोकेभ्यः पुरुषा वरपुण्डरोकाणीव संसारजला - सङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः यथाहि पुण्डरीकाणि पङ्क्ते जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति निवासी भुवनलक्ष्मनाः, आयतनं चक्षुराद्यानन्दस्य प्रवरगुणयोगतो विशिष्टतिर्य्यग्नरामरेः सेव्यन्ते सुखहेतवो भवन्ति ; तथा भगवन्तोऽपि कर्मपते जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन निवासो गुण सम्पदः, हेतवः परमानन्दस्य केवलादिगुणभावेन तिर्यग्न रामरे से त्र्यन्ते निवृत्तिसुखहेतवश्च जायन्ते इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु विजातीयोपमायोगेन तद्धर्मापत्तिरापाद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धम्माणां पशत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरो ६१८

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44