Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 34
________________ ६२४ योगशास्त्रे चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तचतुरन्तं चक्रमिव चक्र रौद्रमिथ्यात्वादिभावशत्रुलवनात्तेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः चाउरन्तेति समृ धादिखादात्वमेवं धर्मदत्वादिभिः पञ्चभिः स्तोतव्यसम्पदेव विशेषोपयोगसम्पदुक्ता । ६ । इदानीं सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु। . ... कीटसंख्यापरिज्ञानं तस्य न: क्वोपयुज्यते ? ॥ १॥ इति सर्वदर्शनप्रतिक्षेपेणेष्ट तत्त्वदर्शनवादिनः सौगतान् प्रतिक्षिपतिअप्पहडिहयवरनाणदंसणधराणं विअट्टछ उमाणं-अप्रतिहते सर्व वाप्रतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयतीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति। एते च कश्चित्तत्त्वत: खल्वव्यावृत्तच्छमान एवेष्यन्ते यदाह जानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गल्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ तथादग्धेधनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभौरुनिष्ठम् । - मुक्तः स्वयं कतभवश्व परार्थशूर .. स्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १ ॥ इति ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44