Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
हतीयः प्रकाशः। कम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते विज्ञप्तिरित्यन्येषां पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावादेते. च यथोत्तरं पूर्वपूर्वफलभूताः, तथा हि-अभयफलं चक्षुः, चक्षुःफलं मार्ग: मार्गफलं शरणम्, शरणफलं बोधि: सा च भगवद्भा एव भवतीति बोधिं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्यो यथोदितोपयोगसि रुपयोगसम्पद एव हेतुसम्पदुक्ता ; साम्प्रतं स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुचते-धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहोणं धम्मवरचाउरन्तचक्कवहीणं-धर्मदेभ्यः, इह धर्मश्चारित्रधर्मो ग्राह्यते स च यति-श्रावकसम्बन्धिभेदेन देवा यतिधर्मः सर्वसावद्ययोगविरतिलक्षण: ; श्रावकधर्मस्तु देशविरतिरूपः, स चायमुभयरूपोऽपि भगवद्भा एव हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः, धर्मदत्वं च धर्मदेशनाहारेणैव भवति नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवध्यतया देशयन्तीति धर्मदेशकाः, तथा धर्मनायकेभ्यः, धर्मोऽधिक्कत एव तस्य नायकाः स्वामिनस्तदशीकरणभावात् तदुत्कर्षाऽवाप्तेस्तत्प्रक्ष्टफल-'. भोगात् तयाघातानुपपत्तेश्च धर्मनायकाः, तथा धर्मसारथिभ्यः प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्तनपालनदमनयोगतः सारथयो धर्मसारथयः, तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः, धर्मः प्रस्तुतः स एव त्रिकोटिपरिशुद्धितया सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्यादिचक्रापक्षया च वरं प्रधानं
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44