Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 35
________________ तृतीयः प्रकाशः । ६२५ तन्निवृत्त्यर्थमाह – व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म ज्ञानावरणादिघातिकर्म तद्दन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाऽक्षीणे संसारे अपवर्गः क्षीणे च जन्मपरिग्रह इत्यसत्, हेत्वभावात् । न च तीर्थनिकारजन्मपराभवो हेतुस्तेषां मोहाभावाद मोहे वा अपवर्ग इति प्रलापमात्रमेवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् । एते च कल्पिता विद्यावादिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्दिद्येति वचनात् एत. पोहाय आह - जिणाणं जावयाणं रागादिजेतृत्वाज्जिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात् । न चाऽनुभवोऽपि भ्रान्तः सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः तेभ्यः, एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतौर्णादय एवेष्यन्ते काल एव कृत्स्नं जगदावर्तयति इति वचनात् एतन्निरासायाह –तिखाणं तारयाणं - सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तोर्णवन्तः तीर्णः; न चैषां तीर्णानां पारगतानामावर्तः सम्भवति तद्भावे मुक्त्यसिद्धेः, एवं च न मुक्तः पुनर्भवे भवतीति तोर्णत्वसिद्धि:, एवं तारयन्ति अन्धानपीति तारकास्तेभ्यः, एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदेरवुडादय एवे - घ्यन्ते अप्रत्यक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः इति वचनात् एतावच्छेदार्थमाह- बुद्धाणं बोहयाणं - अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो " ७९

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44