Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 36
________________ ६२६ योगशास्त्र बुद्धाः, न चाखसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति। न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्षीकरोति, नचेन्द्रियवदस्वसंविदितस्याऽपि ज्ञानस्याधप्रत्यक्षीकरणमिन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदित रूपत्वात् यदाह अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति ॥ एवं च सिद्ध बुद्धत्वमेवमपरानपि बोधयन्तीति बोधकास्तेभ्यः, एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनय स्तत्त्वतोऽमुक्तादय एवेष्यन्ते, ब्रह्मवद ब्रह्मसङ्गतानां स्थितिरिति वचनात् एतन्निराचिकोर्षयाऽऽह-मुत्ताणं मोअगाणं-चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान् मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् होनादिकरणे च रागद्देषाऽनुषङ्गः, न चान्यनाऽन्यस्य लयः सम्भवति एकतराभावप्रसङ्गात् एवं च जगत्कर्तरि लयाभावाद मुक्तत्वसिद्धिः, एवं मोचयन्त्यन्यानपौति मोचकास्तेभ्यः, एवं च जिनवजापकत्वतीर्णत्वतारकत्वबुद्धत्वबोधकत्वमुक्तत्वमोचकत्वैः खपरहितसिडेरामतुल्यफलकर्तृत्व सम्पदष्टमी ।८। एतेऽपि बुद्धियोगज्ञानकादिभिः कापिलैरसर्वज्ञा असर्वदर्शिन एवेष्यन्ते बाध्यवसितमर्थं पुरुषश्चेतयते इति वचनात् एतन्निराकरणायाह- सवर्ण सव्वदरिसोणं-सर्व जानन्तीति सर्वज्ञाः सर्वं पश्यन्तीत्येवंशीला: सर्वदर्शिनः तत्स्वभावत्वे निरावरणत्वात्

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44