Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 40
________________ योगशास्त्रे चैत्यानि प्रतिमालक्षणानि अहंञ्चैत्यानि-चित्तमन्तःकरणं तस्य भावः कम वा वर्णदृढादित्वात् व्यगि चैत्यं बहुविषयत्वे चैत्यानि तत्राऽहतां प्रतिमा हि प्रशम्तममाधिचित्तोत्पादकत्वादह चैत्यानि भण्यन्ते तेषां किं वन्दनादिप्रत्ययं कायोत्सर्ग करोमोति सम्बन्धःकायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिक्कत्य परित्यागस्तं करोमि । वंदणवत्तिाए-वन्दनप्रत्ययं वन्द नमभिवादनं प्रशस्तकायवामनःप्रवृत्तिरित्यर्थः तत्प्रत्ययं तनिमित्तं कथं नाम कायोसर्गादेव मम वन्दनं स्यादिति वत्तिाए इत्याषत्वामिइमेवं सर्वत्र द्रष्टव्यम् । तथा पूअणवत्तिाए पूजनप्रत्ययं पूजननिमित्त पूजनं गन्धमाल्यादिभिरभ्यर्चनम्, तथा सकारवत्तिपाए-सत्कारप्रत्ययं सत्कारनिमित्तं सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम्, ननु च यते: पूजनसत्कारावनुचितौ द्रव्यम्तवत्वात् ; श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गहारण तत्प्रार्थना निष्फला, उच्यते, साधोद्रव्यस्तवप्रतिषेधः करणमधिक्तत्य न पुनः कारणानुमती, यत उपदेशदानत: कारण मद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह'सुव्वइप्रवदररिसिणा कारवणं पि अ अणु ट्ठियमिमस्म । वायगगन्थेसु तहा आगया देसणा चेव ॥१॥ (१) सुतिकावर्षिणा कारणमपि चानुष्ठितमस्य । वाचक ग्रन्थेषु तथा यागता देशना चैध ॥ ३ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44