Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
तृतीयः प्रकाशः ।
६१५ हैतव्यवच्छेदेनाऽहहहुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च। एते चाऽहन्तो नामाधनेकभेदा इति भावात्मम्परिग्रहार्थमाह भगवद्भाः
भगोऽर्कज्ञानमाहात्म्ययशोवैराग्य मुक्तिषु ।
रूपवीर्यप्रयत्नेच्छाश्रीधर्मेखर्ययोनिषु ॥ १ ॥ इति वचनादर्कयोनिवर्जमिह हादशधा भगशब्दस्यार्थ: म विद्यते येषां ते भगवन्तः, निन्दावज भूम्यादिष्वर्थेषु मतुः ; ज्ञानं तावह निवासात् प्रभृति आदीक्षातो मतिश्रुतावधिलक्षणं दीक्षानन्तरं त्वघातिकर्मचतुष्टयक्षयाद मन:पर्यायज्ञानसहितम्, घातिक्षये चानन्तमनन्तविषयं नि:शेषभावाभावस्वभावावभासकं केवलज्ञानम् । १ । माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन गर्भनिवासात् प्रभृति कुलस्य धनादिवर्धनेनाऽप्रणतसामन्तानां च प्रणत्येतिमारिवैरोपहतिवर्जितराज्यकरणनाऽतिवृष्ट्यनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चाऽवसेयम् । २। यशस्त रागहेषपरीषहोपसर्मपराक्रमसमुत्थमाकालप्रतिष्ठं यत्सर्वदा दिवि सुरसुन्दरोभिः पाताले नागकन्याभिर्गीयते सुरासुरैनित्यमभिष्ट्रयते च ।। वैराग्यं मरुवरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिर्नाम, यदा त सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्मणो भवन्ति तदा सुखदुःखयोर्भवमोक्षयोरीदासीन्यमिति त्रिविधमप्यतिशायि भवति ।
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44