Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
. योगशास्त्रे यदवोचाम वीतरागस्तोत्रे
यदा मरुनरेन्द्र श्रीस्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ १ ॥ नित्यं विरक्त: कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ २ ॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमौशिषे ।
तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ॥३॥ इति ।। मुक्तिश्च सकलले शप्रहाणलक्षणा सनिहितैवेति । ५। रूपं तु
'सव्वसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा। जिणपायंगुटुं पड़ न सोहए तं जहिंगालो ॥ १ ॥ इति निदर्शनात् सिद्धं सर्वातिशायि । ६ । वीर्यं च मेरोर्दण्डरूपतां धरित्रवाश्च छत्ररूपतां कर्तुं सामर्थ्यम् श्रूयते ; हि तत्कालजातेनैव श्रीमहावीरेण शकशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वत: प्रकम्पितः । ७। प्रयत्नः परमवीर्यसमुत्थ एकरात्रि क्यादिमहाप्रतिमाभावहेतुः समुहातशैलेश्यवस्थाव्यङ्गाः । ८। इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपतमग्नस्य जगत उद्दिधीर्षातिशयवती । ८ । श्री_तिकर्मोच्छेदविक्रमावाप्त केवलालोकसम्पत्तिः, अतिशयसुख सम्पच्चानुपमा । १० । धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् । ११ । ऐश्खये तु
(1) सर्वसुरा यदि रूपमङ्गुष्ठ प्रमाणक विकुर्वे युः ।
जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथागारः ॥ १ ॥
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44