Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
योगशास्त्र
प्रणामस्तु पञ्चधा--
एकाङ्गः शिरमो नामे स द्यङ्गः करयोईयोः । त्रयाणां नमने त्राङ्गः करयोः शिरसस्तथा ॥ १ ॥ चतुणां करयोर्जान्वोनमने चतुरङ्गकः।। शिरस: करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥ २ ॥ मध्यमा तु स्थापनाहतस्तवदण्डकेन स्तुत्या चैकया भवति । यदाह -
'नवकारेण जहन्ना दंडगथुइजुगल मज्झिमा गया। संपुरमा उक्कोसा विहिणा खलु वंदणा तिविहा ॥ १ ॥ इत्यु कृष्टया चैत्यवन्दनया वन्दितु कामो विरत: साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुनर्बन्धको वा यथाभट्रको यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्द नमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्ड कसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकदिकादिप्रमाणाश्च विश्रामभूमिरूपा नवसम्पदो भवन्ति । यदाह--
दो तिअ चउर ति पंचा दोन्नि अचउरो य हुन्ति तिने य। - सक्थए नव संपय तित्तीसं होन्ति आलावा ॥ १ ॥ (१) नमस्कारेण जघन्या दण्ड कस्तुति युगलाद् मध्यमा जेया ।
सम्पूर्णोत्कृष्टा विधिना खलु वन्दना विविधा ॥ १ ॥ (२) दो वयश्चत्वारस्त्रयः पञ्च हौ च चत्वारश्च भवन्ति त्रयश्च ।
शक्तस्तवे नव सम्पदात्रयस्त्रिंशद् भवन्ति अालापाः ॥ १.॥
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44