Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 8
________________ ५८.८ योगशास्त्रे - ततः शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि 1 प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२४ ॥ शुचिरिति मलोत्सर्गदन्तधावनजिह्वा लेखनमुखप्रक्षालन गण्डूषकरणस्नानादिना शुचिः सनित्यनुवादपरं लोकसिद्धेो ह्ययमर्थ इति नोपदेशपरम्, अप्राप्ते हि शास्त्रमर्थवत् । न हि मलिनः स्वायात्, बुभुचितोऽश्रीयादित्यव शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिक मोहान्धतमस विलुप्ता लोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्वाऽप्यप्राप्ते विषये उपदेश: सफल इति चिन्तनोयम् । न च सावद्यारम्भेषु शास्तॄणां वाचनिक्ाऽप्यनुमोदना युक्ता । यदाहुः— 'सावज्जणवज्जाणं वयणाणं जो न जाणए विसेसं । वृत्तं पि तस्म न खमं किमङ्ग ! पुण देसणं काउं ॥ १ ॥ इति शुचित्वमनूद्य पुष्पामिषस्तोत्रेरित्याद्युपदिशति - वेश्मनि ग्टहे देवं मङ्गलचैत्यरूपं भगवन्तमर्हन्तमभ्यर्च पूजयित्वा, पूजाप्रकारानाह – पुष्पामिषस्तोत्रैरिति, पुष्पाणि कुसुमानि पुष्प्रग्रहणं सर्वेषां सुगन्धिद्रव्याणां विलेपनधूपगन्धवासवस्त्राभरणादीनामुपलक्षणम् । आमिषं भच्यं पेयं च तच्च पक्कान्नफलाचतदीपजलष्टतपूर्णपात्रादिरूपं, स्तोत्रं शक्रस्तवादिसद्भूतगुणोत्कोर्तनरूपं, ततः प्रत्याख्यानं नमस्कारसहिताद्यद्दारूपं सङ्केतरूपं च (१) सावद्यावद्यानां वचनानां यो न जानाति विशेषम् । उक्तमपि तस्य न चमं किमङ्ग ! पुनर्देशनां कर्तुम् ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44