Book Title: Yatilakshan Samucchay Prakaran
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૯૦
યાતિલક્ષણસમુચ્ચય પ્રક્રણ / ગાથા : ૨૧૫
गाथार्थ :
एअं-एतम् मेने शुद्ध प्र३vel 5रना। गुरुने, अवगाता, निंEता अने यापश्यने नहि કરતા સાધુ સૂત્રમાં પાપભ્રમણ કહેવાયા છે અને મહામોહના બંધક પણ કહેવાયા છે. ર૧પ टी :
एतं-प्रस्तुतगुरुमवमन्यमानो-हीलयन् साधुरिति गम्यते भणित उक्तः सूत्रे-सिद्धान्ते श्रीमदुत्तराध्ययन इत्यर्थः पापश्रमणः कुत्सितयतिरितिरुपप्रदर्शने । तच्चेदम् सूत्रं
"आयरियउवज्झाएहि, सुयं विणयं च गाहिए ॥ ते चेव खिसइ बालो, पावसमणु त्ति वुच्चइ ॥१॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पइ । अपडिपूयए थद्धे, पावसमणु त्ति वुच्चइ ॥२॥" तथा महामोहबन्धकः-प्रकृष्टमिथ्यात्वोपार्जकश्च, अपि( च )शब्दः सूत्रान्तरं सूचयति-किं कुर्वन् ? 'खिसंतो'त्ति गुरोनिन्दां कुर्वन्, 'अपडितप्यन्तु'त्ति तेषां वैयावृत्त्यादावादरमकुर्वन्निति । सूत्रान्तरं चावश्यके त्रिंशत्सु मोहनीयस्थानेष्वेवं पठ्यते
"आयरियउवज्झाए, खिसइ मन्दबुद्धिए ।। तेसिमेव य नाणीणं, सम्मं नो पडितप्पइ ॥" क्रियापदं च पर्यन्त "महामोहं पकुव्वइत्ति भणितमिति ।
आह-गुरोः सामर्थ्याभावे यदि शिष्योऽधिकतरं यतनातप:श्रुताध्ययनादि करोति तत्कि युक्तमाहोश्चिद् गुरोर्लाघवहेतुत्वान्न युक्तमित्यत्रोच्यते-गुर्वनुज्ञया युक्तमेव, गुरोगौरवहेतुत्वाद्, भवति च गुणाधिके विनये गुरोर्गौरवम्, श्रीवज्रस्वामिनि सिंहगिरिगुरोरिव । तथाहि
पुरा सिंहगिरेः सूरेविनेयो विनयास्पदम् । अज्ञानगुरुभूमीभृद्वजाभो वज्र इत्यभूत् ॥१॥ अबालधी: स बालोपि, संयत्युपाश्रयाश्रयी । एकादशाङ्गीमध्येष्ट, पदानुसृतिलब्धियुक् ॥२॥ अष्टाब्दो गच्छमध्यस्थो, यद्यत् पूर्वगताद्यपि । पापठ्यमानमौषीत्, तत्तज्जग्राह लीलया ॥३॥ पठेति स्थविराः प्राहुर्यदि वज्रं तदा च सः । उद्गृणन्नस्फुटं किंचित्, शुश्राव पठतो परान् ॥४॥ परेद्यवि दिवामध्ये, भिक्षार्थं भिक्षवो ययः । बहिर्भूमौ गुणग्रामगुरवो गुरवोऽप्यगुः ॥५॥

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334