Book Title: Visheshavashyak Bhashya Part 01 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 8
________________ विशे० निक्षिप्तमनुगम्यत इत्यादि । तथोपक्रमादिद्वाराणामेव प्रयोजनं शास्त्रोपकाररूपं नगरदृष्टान्तेन वाच्यम् , यथा समाकारं महानगरं किमप्यकृतद्वारं लोकस्याऽनाश्रयणीयं भवति, एकादिद्वारोपेतमपि दुःखनिर्गमप्रवेशं जायते, चतुरोपेतं तु सर्वजनाभिगमनीयं सुख । बृहद्वृत्तिः । निर्गमप्रवेशं च संपद्यते; एवं शास्त्रमप्युपक्रमादिचतुरयुक्तं सुबोधम् , सुखचिन्तन-धारणादिसंपन्नं च भवतीति । एवमुपक्रमादिद्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजनमिह वक्ष्यत इति भावः । भेदश्च निरुक्तं च क्रमश्च प्रयोजनं चेति द्वन्द्रं कृत्वा पश्चात् तेषामुपक्रमादिद्वाराणां भेद-निरुक्त-क्रम-प्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेयः। चः समुच्चये । वाच्यानीति यथायोगमर्थतः सर्वत्र । योजितमेव । इति द्वारगाथासंक्षेपार्थः॥२॥ विस्तरार्थं तु भाष्यकार एव दिदर्शयिषुः “यथोद्देशं निर्देशः" इति कृत्वा प्रेक्षावतां प्रवृत्यर्थमावश्यकानुयोगफलपतिपादिका तावद् गाथामाह नाण-किरियाहिं मोक्खो तम्मयमावस्सयं जओ तेण। तव्वक्खाणारम्भो कारणओ कजसिद्धि त्ति ॥ ३ ॥ व्याख्या-बानं च सम्यगवबोधरूपम् , क्रिया च तत्पूर्वकसावद्या-ऽनवद्ययोगनिवृत्ति-प्रवृत्तिरूपा ज्ञानक्रिये, ताभ्यां तावद् मोक्षोऽशेषकर्ममलकलङ्काभावरूपः साध्यते, इति सर्वेषामपि शिष्टानां प्रमाणसिद्धमेव, दर्शनस्य ज्ञान एवाऽन्तर्निहितत्वादिति । यदि नाम ज्ञान-क्रियाभ्यां मोक्षः, तर्हि आवश्यकानुयोगस्य किमायातम् , येन फलवत्तया प्रेक्षावतां तत्र प्रवृत्तिः स्यात् ?; इत्याह-तन्मयमावश्यकम्-ताभ्यां ज्ञान-क्रियाभ्यां निवृत्तं तन्मयं ज्ञान-क्रियास्वरूपमावश्यकम् , तत्कारणत्वात् । इति भावः। यथा ह्यायुर्वृद्धिकारण| त्वेनोपचाराल्लोके घृतमायुरुच्यते, नडलोदकं पादरोगः कारणत्वात् तथैवाभिधीयते, एवं प्रस्तुतानुयोगविषयीकृतं सामायिकादिषडध्ययनमूत्रात्मकमावश्यकमपि सम्यग्ज्ञान-क्रियाकारणत्वात् तत्स्वरूपमेव, तदध्ययन-श्रवण-चिन्तन-तदुक्ताचरणप्रवृत्तानामवश्यं सम्यरज्ञान-क्रियामाप्तेः। तस्मादुक्तन्यायेन ज्ञान-क्रियाऽऽत्मकं यत आवश्यकम् , अतस्तस्याऽऽवश्यकस्य व्याख्यानमनुयोगस्तद्व्याख्यानं तस्याऽऽरम्भः प्रेक्षावता क्रियमाणो न विरुध्यते, आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिद्वारेण मोक्षलक्षणफलसिद्धेः॥ नन्वित्थं तर्हि आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिः, ताभ्यां च मोक्षलक्षणफलसिद्धिः, इत्येवमावश्यकस्यैव पारम्पर्येण मोक्षात्मकं फलं स्यात् , न पुनस्तदनुयोगस्य; फलचिन्ता त्वस्यैवेह प्रस्तुता, इति चेत् । सत्यम् , किन्त्वावश्यक व्याख्येयम् , तद्व्याख्यानं चानुयोगः, व्याख्याने च व्याख्येयगत एव सर्वोऽभिप्रायः प्रकटीक्रियते। अतो व्याख्येयस्य यत्फलम् , व्याख्यानस्य तत् ॥६॥ ज्ञानक्रियाभ्यां मोक्षस्तन्मयमावश्यकं यतस्तेन । तयाख्यानारम्भः कारणतः कार्यसिद्धिरिति ॥३॥ 29 For som e Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202