Book Title: Visheshavashyak Bhashya Part 01 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 6
________________ विशे० SS ॥४॥ श्यकत्वात् , तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता भाष्यस्य न विहन्यते; इत्यलं विस्तरेण ।। अस्याच गाथायाः प्रथमपादेन विघ्नसंघातविघाताथै मङ्गलहेतुत्वादिष्टदेवतानमस्कारः कृतः, शेषपादत्रयेण त्वभिधेय-प्रयोजन-संबन्धाभिधानमकारि । तत्रावश्यकानुयोगं वक्ष्य इति ब्रुवताऽऽवश्यकानुयोगोऽस्य शास्त्रस्याऽभिधेय इति साक्षादेवोक्तम् । प्रयोजनसंबन्धौ तु सामर्थ्यादुक्ती, तथाहि संपूर्णचरण-गुणसंग्राहकत्वं दर्शयता ज्ञान दर्शन-चारित्राधारताऽस्य शास्त्रस्य दर्शिता भवति, तद्रूपाणि च शास्त्राणि पठन-श्रवणादिभिरनुशील्यमानानि स्वर्गा-ऽपवर्गप्राप्तिनिवन्धनानि भवन्तीति प्रतीतमेव, अतः स्वर्ग-मोक्षफलावातिरस्य शास्त्रस्य प्रयोजनमिति सामादुक्तं भवति । अभिधेया-ऽभिधायकयोश्च वाच्य-चाचकभावलक्षणः संबन्धोऽप्यर्थादभिहितो भवति । अस्यां च संबन्ध-प्रयोजना-ऽभिधेयादिचर्चायां बद्दपि वक्तव्यमस्ति, केवलं बहुषु शास्रेष्वतिचर्चितत्वेन सुप्रतीतत्वात् , तथाविधसाध्यशून्यत्वाच नेहोच्यते । अनेन चाभिधेयायभिधानेन शाखश्रवणादौ शिष्यप्रत्तिः साधिता भवति, अन्यथा हि न श्रवणादियोग्यमिदम् , निरभिधेयत्वात् , काकदन्तपरीक्षावत् । इत्याशक्य नेह कश्चित् प्रवर्तते । उक्तं च "सीसंपवित्तिनिमित्तं अभिधेयपओयणाई संबंधो । वत्तव्वाई सत्थे तस्सुन्नत्तं सुणिज्जिहरा" ॥ १ ॥ एवं मङ्गलायभिधाने व्यवस्थापित कश्चिदाह-- नन्वहंदादय एचेष्टदेवतात्वेन प्रसिद्धाः, तत्किमिति तान् विहाय ग्रन्थकृता प्रवचनस्य नमस्कारः कृतः ? इति । अत्रोच्यते- “नमस्तीर्थाय" इति वचनादर्हदादीनामपि प्रवचनमेव नमस्करणीयम् , अपरं चाहदादयोऽप्यस्मदादिभिः प्रवचनोपदेशेनैव ज्ञायन्ते, तीर्थमपि च चिरकालं प्रवचनावष्टम्भेनैव प्रवर्तते, इत्यादिविवक्षयार्हदादिभ्योऽपि प्रवचनस्य प्रधानत्वात् , ज्ञानादिगुणात्पकत्वाचेष्टदेवतात्वं न विरुध्यते । प्रवचननमस्कारं च कुर्वद्भिः पूज्यः सिद्धान्ततत्त्वावगमरसानुरञ्जितहृदयत्वादात्मनः प्रवचनभक्त्यतिशयः प्रख्यापितो भवति, इत्यलमतिविस्तरेण । मङ्गलादिविचारविषये द्याक्षेपपरिहारादिकमिहैव ग्रन्थकारोऽपि न्यक्षेण वक्ष्यतीति ॥ तदेवमियं गाथा, सर्वोऽपि चायं ग्रन्थो महामतिभिः पूर्वमरिभिगम्भीरवाक्यप्रवन्धैर्युत्पन्नभणितिप्रकारेण च व्याख्यातः । तच्च व्याख्यानमित्थं युक्तमपि “गौराग्यां गौरवपाण्डुरोग-" न्यायेन मतिमान्यात् सांप्रतकालीनशिष्याणां न तथाविधार्थावगमहेतुतां प्रतिपद्यते, इत्याकलय्य मन्दमतिनाऽपि मया तेषां मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्या१ स. 'व्यपोहाथै'। २ ख, 'सामर्थ्य तो गम्यौ। ३ क. ग. 'चर्यायां'। ४ शिष्यप्रवृत्तिनिमित्तमभिधेय-ययोजने संबन्धः । वक्तव्यानि शास्त्रे सच्टून्पत्वं ऋणुयादितरथा ॥१॥ ४ ॥ Jain Education inte For Personal and Private Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 202