Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 473
________________ ४५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - ‘अष्ट-ग्रह-ग्रह-शशाङ्कमिते सुवर्षे (१९९८), श्रीविक्रमार्कनृपतीन्द्रवराद् गते हि । मासोत्तमे हिममये शुभपौषमासे, आत्मस्थितिस्थिरकरे स्थिरवासरे च ॥२८४॥ लग्ने तुलाधरगृहे रविपुष्ययोगे, मार्तण्डमण्डलविभूषितचापगेहे । कर्कस्थिते हिमकरे निजगेहरूपे, भूमीसुते स्थितवति स्वगृहे 'सुमेषे ॥२८५॥ सोमात्मजे "भृगुसुते मकरस्थिते च, मेषस्थिते "रविसुते ललनाख्यभावे । 'तत्सिंहिकासुतविभूषितसिंहराशी, कुम्भस्थिते शिखिनि मित्रगृहे त्रिकोणे ॥२८६॥ १'युग्मं गते सुरगुरौ च सुपुण्यकाले, सूर्योदयात् प्रविगतासु तदा वरासु । पञ्चाशदिष्टघटिकासु च षड्युतासु, सूरीश्वरः प्रविगतो वरदेवलोकम् ॥२८७॥ १. शनैश्चरदिने । २. धनराशौ । ३. चन्द्रे । ४. मङ्गले । ५. मेषराशौ । ६. बुधे । ७. शुक्रे । ८. शनैश्चरे । ९. सिंहिकासुतो राहुः । १०. केतौ । ११. मिथुनराशिम् ।

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502