Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 484
________________ गुरुगुण साम्राज्यम् । उपजातिः व्यधात् स जीवेषु च साम्यभावनामपूर्वधैर्यं समभूत्तदुच्चकैः ॥ ३३८ ॥ - सर्वेषु सूरीश्वरपुङ्गवेषु, सोऽयं विशेष: समभूत्तथाऽस्मिन् । यदन्वमन्यन्त ह्यपास्तदोषं, समानभावं शुभशीलमेनम् ॥३३९॥ सर्वे सुसाधुप्रवरास्तथैवं, साध्वीप्रकाण्डा बहुमानपूर्वम् । विहाय नैजं समुदायभेदं, समागुरेनं च विवन्दनार्थम् ॥३४०॥ ( युग्मम् ) सूरीश्वरस्याऽस्य हृदि प्रभेदो, निजः परो वेति कदापि नासीत् । अपास्य भेदं समुदायजन्यं, सर्वानपश्यत् स समानदृष्ट्या ॥३४१ ॥ साधोश्च साध्व्याः समुदायकस्य, कस्याऽपि किञ्चित् समपेक्ष्य वस्तु । उदारभावेन स नीतिसूरि रदापयत् तूर्णतमं स्वभक्तैः ॥३४२॥ एतादृश: सद्गुणशीलशाली, सूरीशदेवो जिनधर्मधुर्यः । निर्वाणभावं समगादकाले, ४६५ हेतोश्च तस्मादमिलन् सुभक्ताः ॥३४३॥

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502