Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४६६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपौषमासस्य हि कृष्णपक्षे,
तिथौ चतुर्थ्यामुदयादिपुर्याम् । बाह्यप्रदेशस्थितधर्मशाला
___ मध्ये व्यधुः शोकसभां बतैते ॥३४४॥ (युग्मम्) यदा च सूरीश्वरपुङ्गवोऽसौ,
निर्वाणभावं समगात्तदैव । ग्रामेषु खेटेषु तथा पुरेषु,
___ संघेन वृत्तं तदिदं न्यवेदि ॥३४५॥ तद्वायुसंदेशसमूहमुख्या
न्यनेकशोकप्रविसूचकानि । अश्रावयश्चागतपत्रकाणि,
सभ्यप्रकाण्डाः समितौ हि तानि ॥३४६॥(युग्मम्) अनेकवक्तृप्रवरैः सभायां,
सूरीश्वरस्योत्तमशीलभाजः । संवर्ण्य वाग्भिः प्रवरप्रभावं,
प्रस्ताव उच्चैश्च कृतः शुचोऽस्याम् ॥३४७॥ अनन्तरं कारयितुं प्रतिष्ठां,
चित्तोडदुर्गस्थितमन्दिरेषु । अमन्त्रि संघेन मिथः सभायां,
करिष्यमाणस्य विधेश्च हेतोः ॥३४८॥ वैशाखमासे प्रवरप्रतिष्ठां,
कर्तृ विचिन्त्यैकमतेन सर्वे ।

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502