SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपौषमासस्य हि कृष्णपक्षे, तिथौ चतुर्थ्यामुदयादिपुर्याम् । बाह्यप्रदेशस्थितधर्मशाला ___ मध्ये व्यधुः शोकसभां बतैते ॥३४४॥ (युग्मम्) यदा च सूरीश्वरपुङ्गवोऽसौ, निर्वाणभावं समगात्तदैव । ग्रामेषु खेटेषु तथा पुरेषु, ___ संघेन वृत्तं तदिदं न्यवेदि ॥३४५॥ तद्वायुसंदेशसमूहमुख्या न्यनेकशोकप्रविसूचकानि । अश्रावयश्चागतपत्रकाणि, सभ्यप्रकाण्डाः समितौ हि तानि ॥३४६॥(युग्मम्) अनेकवक्तृप्रवरैः सभायां, सूरीश्वरस्योत्तमशीलभाजः । संवर्ण्य वाग्भिः प्रवरप्रभावं, प्रस्ताव उच्चैश्च कृतः शुचोऽस्याम् ॥३४७॥ अनन्तरं कारयितुं प्रतिष्ठां, चित्तोडदुर्गस्थितमन्दिरेषु । अमन्त्रि संघेन मिथः सभायां, करिष्यमाणस्य विधेश्च हेतोः ॥३४८॥ वैशाखमासे प्रवरप्रतिष्ठां, कर्तृ विचिन्त्यैकमतेन सर्वे ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy